________________
द्वितीयाऽङ्क कथितं यद् भीष्मप्रमुखानेकानां वीरक्षये करुणवीररसादेरेव प्रसङ्गः शृङ्गाररसस्तु सर्वथाऽनुचितः, तथापि दुर्योधनस्य भानुमत्या सह शृङ्गारवर्णनमिति दोषः।
(६) 'प्रकाण्डे रसस्य छेदः' श्रीवीरचरित्रग्रन्थे द्वितीयाऽङ्क राम-परशुरामयोः वीररसे प्रवृत्ते कङ्कणमोचनाय गच्छामीति श्रीरामस्योक्तिः प्रसिद्धः ।
(७) प्रकृतीनां विपर्ययः- प्रकृतयः त्रिविधा सन्ति । तथा हि-दिव्या, अदिव्या, दिव्यादिव्याश्चेति । तत्र दिव्याः देव-गन्धर्वादयः, अदिव्याः नरादयः, ये दिव्या अपि आत्मनि नराभिमानिनस्ते दिव्यादिव्याश्च । यथा-श्रीरामचन्द्रादयस्तेषां यत् प्रतिकूलवर्णनं तत् प्रकृतिविपर्ययः । यथाधीरोदात्तप्रकृतेः रामस्य धीरोद्धतवच्छद्मना वालिवधः । तथा च मात-पित्रोः सम्भोगवर्णनवद् भगवतो सम्भोगवर्णनमनुचितम्, तथापि श्रीकुमारसम्भवकाव्यग्रन्थे पार्वती-शङ्करयोः तद्वर्णनमिति दोषः । एते दोषा स्थलविशेषे यथायथं दोषत्वं त्यजन्ति । तथा तेषामनुकरणे सति विदूषकप्रोक्तौ, व्यभिचारस्य स्वशब्देन कीर्तने, वदनाद्याकारविशेषे एवं अन्यत्रापि वै । क्वचिद् दोषोऽपि गुणः करोति । यथा-क्रोधयुक्त वक्तरि रौद्ररसे च दुःश्रवत्वं गुणः
साहित्यरत्नमञ्जूषा-१६०