________________
दोषं काव्यदूषणमुद्घोषयन्ति विद्वान्सः । स चायं दोषः द्विविधः नित्योऽनित्यश्च । तत्र प्रकारान्तरेणापि समाधातुमशकयो नित्यः । यथा च्युतसंस्कृत्यादिः एतद् विपरीतस्त्वन्यः । यथा ग्राम्यत्वादिः अभिभूतोऽर्थे अभिधेयो यस्मिन् स तादृशो दोष इति यावत् । रागे वक्तव्ये लोहितादिशब्दमपहाय रुधिरार्थवाचकशोरिणतादि पदप्रयोगे निहतार्थदोषसत्ता, यतो हि शोणित - पदस्य रुधिरे प्रसिद्धार्थता रागे त्वप्रसिद्धार्थता इति दोषः । उभयार्थशब्दत्वे सत्यप्रसिद्धार्थ प्रयोजकतृत्वं निहतार्थित्वम् । असमर्थे त्वर्थानुपस्थितिरत्र द्वितीयार्थस्य विरलप्रयोगतया विलम्बेन अर्थप्रयोगः । प्रकृते यच्छब्दस्यानुपयोगित्वम्= तन्निरर्थकत्वम् । यथा
उत्फुल्लकमल के सरपरागगौरद्युते मम हि गौरि ! अभिवाञ्छितं प्रसितु भगवति ! युष्मत् प्रसादेन । अत्र 'हि' शब्दो अनुपयोगी। पूरणमेवैकं मुख्यं प्रयोजनं यस्मिन् तत् तादृशः पादाक्षरभरणमात्रफलकम् । निर्गतोऽर्थः प्रयोजनं यस्मात् तन्निरर्थकं नाम दूषणं भवति । यत्र श्लोके पादाक्षरपूर्तीच्छया 'तु' हि पदानि विनिवेश्यन्ते । यथा
" मुञ्च मानं हि मानिनि" अत्र हि शब्दः निरर्थकः । निरर्थकपदयुक्त वचसि सहृदयानां वैमुख्यम् ।
साहित्य - १०
साहित्यरत्नमञ्जूषा - १४५