________________
केषाञ्चित् तु रतिशोकप्रशमेषु गुर्जर्यादिरागवृत्तिरिव कश्चिदेको धर्मोऽस्ति । स एव माधुर्यं तेन सामाजिकानां चित्तं द्रवीभवति । रत्यादीनां रसरूपतया परिरणामेन तस्य रसवृत्तित्वं इति वदन्ति । तन्न । तत्र तादृश धर्मसत्त्वे मानाभावात् । न च दुतिरुपकार्यान्वयानुपपत्या तत् कल्पनं इति वाच्यम् । गुर्जर्यादौ तु प्रत्यक्षसिद्ध एव तादृशधर्मः । अन्ये तु 'सुश्रवत्वमेव माधुर्यं काव्यधर्मः' संभोगापेक्षया करुणे तदपेक्षया विप्रलम्भे, तदपेक्षया
शान्तेऽधिकम् ।
शृंगारे माधुर्यं यथा
1
लता कुञ्जं गुञ्जन् मदवदलिपुञ्जं चपलयन् समालिङ्गन्नङ्गः द्रुततरमनङ्गः प्रबलयन् । मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन्, रजोवृन्दं विन्दन् किरति मकरन्दं दिशि दिशि ॥ १ ॥
लतापदं सुरभि पुष्पलता बोधकतया सार्थक्यम् । आवृत्तेर्माधुर्यव्यञ्जकत्वं यथा
मुद्रितामिन्दुमालोकय, पद्मिनीं पश्य सुन्दरि । दन्तकान्तस्य विच्छेदे, मधुरोऽपि न रोचते ॥
सोहित्यरत्नमञ्जूषा - १३२