________________
रसध्वनि-गुणीभूत-व्यंग्यादावान्तर्गतौ श्लेष-समाधौ वैचित्र्यमात्रद्यौतको समता च दोषाभावरूपता।
वेदान्तेऽपि व्यावहारिकस्यात्मनः सगुणत्वम् । अत एव न्याये वैशेषिके चात्मनो गुणा इच्छादेवादयः स्वीक्रियन्ते । गुणानां रसधर्मत्वाभाव - स्वीकारे च गुणालङ्कारयोर्मदको हेतुरपि नावशिष्यते । द्वयोरेव काव्योत्कर्षाध्यापकत्वात् गुणाःरसधर्मा एव । • संक्षेपेण काठिन्यादिपरित्यागपूर्वकानन्दोबोधेन सहृदयाताजनकत्वम् माधुर्यम् (?), तच्च शृङ्गारे करुणे शान्ते च क्रमादतिशयमावहति । माधुर्य-व्यञ्जकाःअग्रे वर्गान्त्यवर्णयुक्ता वर्णाः, ट ठ ड ढ वजिताः, ह्रस्वस्वरयुक्तौ रेफणकारौ, अल्पसमासाः, ललितमृदुरचनादयः । आह्लादकत्वं माधुर्यशृङ्गारे द्रुतिकारकम् । शृङ्गारे करुणे शान्ते वा अनुभवसिद्धमेवाह्लादजनकत्वं माधुर्यम् । श्राह्लादातिरिक्तस्य द्रवीभावस्य निर्ववतुमशकयतया आह्लाद एव पर्यवसानम् । एवं च शृङ्गारकरुण-शान्तरसोद्बोधनान्तरं जायमानो रत्याद्यविषयकः सहृदयद्रवीभावरूपः केवलानन्दसन्दोहानुभवो माधुर्यं तस्य जनकता-सम्बन्धेन रस सम्बन्धितया रसधर्मत्वमक्षतमेवेति भावः ।
साहित्यरत्नमञ्जूषा-१३१ ।