________________
लज्जाहासौ व्यभिचारिणौ, एतैः अभिव्यक्तः सहृदयविषयो रतिभावः शृङ्गाररसरूपतां भजते। तद् भेदश्च विप्रलम्भः । विप्रलम्भोऽथ संभोगः इत्येव द्विविधो मतः । यत्र तु प्रकृष्टा रतिः अभीष्टं न उपैति स विप्रलम्भशृङ्गारः।
यथा अभिलाषस्योदाहरणम्
कथमीक्षे कुरङ्गाक्षी, साक्षात् लक्ष्मी मनोभुवः । इति चिन्ताकुलः कान्तो, निद्रां नौति निशीथिनीम् ॥
प्रलापस्योदाहरणम्
पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥
व्याधि
भिसिणीग्रलसपणीए निहिनं सव्वं सूणिच्चलं अंगं । दोहो णीसा सहरो एसो साहेइ जीन इति परं ॥
रसविच्छेदहेतुत्वान्मरणं नैव वर्ण्यते ।
जातप्रायं तु तद् वाच्यं, चेतसा काङ्कितं तथा । वर्ण्यतेऽपि यदि प्रत्यु-ज्जीवनं स्याददूरतः॥
साहित्यरत्नमञ्जूषा-१०३ ।