________________
कय्यते । तथा द्वात्रिंशदधिकमात्राणां छन्दसां 'दण्डकछन्दः' कथ्यते। वणिकछन्देषु षड्विंशतिवर्णपर्यन्तानां छन्दसां 'साधारणवृत्तम्' कथ्यते । तथा षड्विंशदधिकवर्णानां छन्दसां 'दण्डकवृत्तम्' कथ्यते ।
वरिपकछन्दसामपि अन्यद्विविधो भेदः-१. गणबद्धः, २. मुक्तकश्चेति । तत्र गणबद्ध छन्दसां चरणेषु वर्णानां गणानां च संख्या विनिश्चितं भवति ।
यथा-मन्दाक्रान्ता, द्रुतविलम्बितं, वंशस्थः, सवैया प्रमुखाः । मुक्तकछन्दसां चरणेषु - केवलवर्णानां संख्या विनिश्चिता, न तु गणानां तथा लघु-गुरुणां च कश्चिदपि नियमो भवति । यथा-मनहरण-कवित्तादयः । छन्दमात्रागगनविधिः
यस्य छन्दसो मात्रा गण्यते, तद् स्पष्टं लिखित्वा तदस्य लघ्वक्षरोपरि लध्वक्षरस्य चिह्न [1] प्रदत्तम् । तथा तदस्य गुर्वक्षरोऽपि गुर्वक्षरस्य चिह्न प्रदत्तमेव । पुनः लध्वक्षरस्य एकमात्रा तथा गुर्वक्षरस्य द्विमात्रा संलग्नं श्लोकचरणस्याग्रिमस्थले लिखितमस्ति ।
मात्रायां छन्दसि आर्यायाः प्राथम्यात्तामेवादौ कथयामि ।
साहित्यरत्नमञ्जूषा-२५