________________
श्रीकुमारविहारशतकम् ते वस्तापं हरंतां नखमणिमुकुरज्योतिरंभश्छटाभिदिक्चक्रं प्रीणयंतः करिमकरभृतः पार्श्वनाथस्य पादाः । पौर्नित्यप्रबोधैरधरितसरसां मैत्र्यमासाद्य येषां चित्रं विच्छिन्नतृष्णाः कति परममृतं प्राणभाजो न भेजुः ॥२॥
अवचूर्णिः- श्री पार्श्वनाथस्य नखमणिमुकुरज्योतिरंभश्छटाभिः दिक्चक्रं प्रीणयंतः करिमकरभृतः ते पादाः वो युष्माकं तापं हरतां नित्यप्रबोधैः पद्मः अधरितसरसां येषां मैत्र्यं आसाद्य प्राप्य चित्रं आश्चर्यं यथा स्यात्तथा विच्छिन्नतृष्णाः कति प्राणभाजः परं अमृतं न भेजुः । पादानां सरःसादृश्यं करिणो गजाः मकरा मत्स्यास्तान् बिभ्रतीति क्विप् तल्लोपे 'हस्वस्य तः पित्कृति' (सिद्धहेम. ४/४/११३) इति तोऽते च भृत् । नखमणयः एव मुकुराः दर्पणास्तेषां ज्योतिषस्ताः एव अंभश्छटास्ताभिः । दिक्चक्रं दशदिक्रस्थान् प्राणिनस्तात्स्थ्यात्तव्यपदेश इति न्यायात् प्राणिनो लभ्यते उत्तमनरपादा अपि गजमकरलांछिता भवंति परं नित्यप्रबोधैः सदा विकसितपदकमलैः अधरितं अधर इव कृतं अधरितं कर्तुः क्विप् (सिद्धहेम, ३।४।२५) इति क्विपि तल्लोपे क्ते इटि अधरितं जितमित्यर्थः। मैत्र्यं संगं' तृष्णा तृषा पक्षे लोभः अमृतं मोक्षः पक्षे नीरं 'भजी सेवायां' परोक्षा उसि 'अनादेशादे.' (सिद्धहेम. ४/१/२४) इति एकारे द्वित्वाभावे भेजुः । आङ् सदण गतौ' इति धातुना आसाद्यरूपसिद्धिः। अन्ये पुरुषा विच्छिन्नर्तृष्णास्त्वमृतेच्छां न कुर्वति । पादपक्षे विच्छिन्नतृष्णात्वे यथेच्छममृतं भजंतीति चित्रम् ॥२॥ | ભાવાર્થ - દિશાઓના સમૂહને પ્રસન્ન કરનારા અને હસ્તી તથા મકરના ચિહ્નોને ધારણ કરનારા શ્રી પાર્શ્વનાથ પ્રભુના તે ચરણો નખરૂપી મણિમયદર્પણના તેજરૂપ જળના છાંટાથી તમારા તાપને હરણ કરો. નિત્ય વિકાશી એવાં કમલોથી સરોવરનો તિરસ્કાર કરનારા જે પ્રભુના ચરણોની મૈત્રી પ્રાપ્ત કરી કયા પ્રાણીઓ પોતાની તૃષ્ણાને છેદી પરમ અમૃતને નથી પ્રાપ્ત થયા? એ આશ્ચર્યની વાત છે. ૨ १ A - संगः, २ A - तृष्णात्वे अमृते., ३ A - यथेष्टम् ।