________________
श्रीकुमारविहारशतकम्
श्रीत्रिभुवनपालप्रासादे पादावधारितं (हाईब्रीड संस्कृत) रामचन्द्रगणिप्रमुखपरिवारपरिवृतैः श्रीहेमसूरिभिः । ततश्च श्रीकुमारपालराजाऽभ्यर्थितैः श्रीरामचन्द्रगणिभिः श्रीपार्श्वदेववन्दनावसरे अष्टौ नमस्कारा कामिततीर्थश्रीपार्श्वनाथस्य (कृताः) १०८ काव्यैः प्रासादवर्णनं च कृतम् । तस्य 'कुमारविहारशतकं' इति नाम जातम् तस्याश्च यत्किश्चिदवचूर्णिर्लिख्यते यथा दिशा - संहिता च पदं चैव पदार्थः पदविग्रहः । चालना' प्रत्यवस्थानं व्याख्या तंत्रस्य षड्विधा ॥१॥ ___ इति पूर्वाचार्योक्तरीत्या व्याख्यायते । तत्र संहिता अस्खलितपदोच्चारणं १, पदं प्रकृतिप्रत्ययनिष्पन्नविभक्त्यन्तशब्दरुपं २, पदार्थ पदानाम् वाक्यार्थभूतानां अर्थकथनं ३, पदविग्रहः समासारम्भकपदानां वाक्यकरणं ४, चालना पूर्वपक्षाशङ्का ५, प्रत्यवस्थानं तन्निराकरणेन स्वपक्षस्थापनं ६ इत्यैतैः स्थानैः काव्यानि व्याख्यायन्ति तत्राऽपि पदार्थ अन्वय इत्यनांतरं तत्र गीर्वाणभाषयाऽर्थकथनं अन्वयं इत्यपि केचिद् व्याख्यां भट्टाः कथयन्ति। आदौ कथ्यते यथा - ____स पार्यो दुरितविजयि शाश्वतानंदबीजं तेजो वो युष्माकं पुष्णातु । भुजगपतिफणाचक्रपर्यंकभाजि सप्तरत्न्यां संक्रांतो यः त्रिभुवनभवनोत्संगितानां जनानां तुल्यकालं समंतात् अष्टौ कर्माणि छेत्तुं क्लृप्तसप्तान्यरूपां निजतनुं वहति इत्यन्वयः । सप्तानां रत्नानां समाहारः ‘अस्य ङ्यां लुग्' (सिद्धहेम, २/४/८६) इत्यनेन अल्लोपे सप्तरत्नी तस्यां सप्तरत्न्यां किंविशिष्टायां ? भुजगपतिफणाचक्रमेव पर्यंकः शय्या तं भजतीति, भजो विण्' (सिद्धहेम, ५/१/१४६) वृद्धौ ‘अप्रयोगीत्' (सिद्धहेम, १/१/३७) इति विणलोपे भाज् इति सिद्धिः (तस्यां) । दुरितं पापं विजयत इत्येवंशीलः 'अजातेः