SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीकुमारविहारशतकम् श्रीकुमारविहारशतकम् । श्रीरत्नशेखरसूरिभ्यो नमः । तेजः पुष्णातु पार्श्वो दुरितविजयि' वः शाश्वतानंदबीजं संक्रांतः सप्तरत्न्यां भुजगपतिफणाचक्रपर्यंकभाजि । कर्माण्यष्टौ समंतात्त्रिभुवनभवनोत्संगितानां जनानां यश्छेत्तुं तुल्यकालं वहति निजतनुं क्लृप्तसप्तान्यरूपाम् ॥१॥ अवचूर्णि:- श्रीपत्तने संवत् १९९९ वर्षे कार्त्तिकशुदि - २ हस्तार्के प्राप्तराज्येन (त्रिंशत्) वर्ष दिन २७ यावत (त्) कृतराज्यकुमारपालेन स्वपितृत्रिभुवनपालनाम्ना प्रासादः कारितः ७२ देवकुलिकायुतः, तत्र २४ रत्नमय्यः २४ पित्तलस्वर्णमय्यः २४ रुप्यमय्यः अतीताऽनागतवर्त्तमानजिनप्रतिमाः १४- १४ भारमय्यः (भारैः सार्द्धसप्त मणानि ) कारिताः । ढिल्लीसंबंधीनि मुख्यप्रासादे १२५ अंगुलप्रमाणविद्रुममयी प्रतिमा कारिता, सर्वत्र स्वर्णकलशा स्तंभाश्च सौवर्णाः । तत्र प्रासादे ९६ कोटिद्रव्यव्ययः । तत्र च महामहोभिः श्रीहेमसूरिपादपार्श्वात् राज्ञा प्रतिष्ठा कारिता । अन्यदा नागपुरे श्रीरामचन्द्रगणिमिश्रादिपरिवारपरिवृतै ( : ) श्री हेमाचार्यै (2) चतुर्मासकं निर्विघ्नं कृतम् । ततः कुमारपालराज्ञा श्रीगुरवः पत्तने आकारिताः, श्रीआम्बडदेबाहडदेचाहडदेसोमाख्यभ्रातृचतुष्टय ९९ - लक्षाधिपसाह - छाडाप्रमुख अष्टादशशतकोटीश्वरव्यवहारि ७२ सामन्तपरिवारपरिवृतैः पत्तने ततश्च १ A विजयतः, २ A - - - १ पर्यंत, ३ A - प्रतिमाश्चतुर्दश, ४ A चंद्रकांतमयी -
SR No.023186
Book TitleKumarvihar Shatakam
Original Sutra AuthorN/A
AuthorRamchandragani, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2003
Total Pages176
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy