SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ XVI श्रीकुमारविहारशतकम् सिद्धहेमशब्दानुशासनप्रभृतिनैकग्रन्थप्रणेतृ-कुमारपालभूपालप्रतिबोधक-कलिकालसर्वज्ञाचार्यसत्तमाऽर्चनीयक्रम-हेमचंद्रसूरीश्वराणां ते चरणकजचञ्चरिका आसन् । हेमचंद्रसूरिभिः शब्दानुशासनलिङ्गानुशासन-छन्दोऽनुशासन-काव्यानुशासन-वादानुशासनात्मकानुशासनपञ्चकमपराणि च बहूनि ग्रंथरत्नानि जैनसाहित्य उपायनीकृतानि । दशपर्वात्मकं त्रिषष्टिशलाकापुरुषचरितमहाकाव्यमपि तेषामेव रचनोद्यानप्रसूनमस्ति । ते श्रुतदेवतालब्धवरा आसन् । तैः स्वायुःकाले सार्धत्रिकोटिप्रमिता नूतनश्लोका निर्मिता यानधुना वयं पठितुमपि न समर्थीभवामः । इत्थं तैर्जेनसाहित्यं समृद्धं कृतम् । ____ मुनिपतिश्रीहेमचंद्रसूरिभिः शैवधर्मवासितान्तःकरणकुमारपालभूमिपालः प्रतिबोधितो जिनभक्तश्च विहितः । प्राग्भवे कुमारपालपृथ्वीपालजीवेन पञ्चकपर्दकक्रीताष्टादशपुष्पैरुत्तमशुभभावेन जिनार्चनं कृतं यस्य प्रभावेन कुमारपालभवे सोऽष्टादशदेशराज्यं लब्धवान्। जिनभक्त्या स्वप्नेऽप्यचिंतिता लाभाः प्राप्यन्ते । पूज्यपादानां हेमचंद्रसूरीश्वराणामुपदेशेन तेन स्वराज्यान्तर्गताष्टादशदेशेष्वहिंसाया घोषणा कारिता । न केवलं स्वदेशेष्वेवान्यदेशराज्ञो मित्रीकृत्य तत्साहाय्येन तद्देशेष्वप्यहिंसाप्रवर्त्तनं कारितम् । कुमारपालराज्ये लघुजंतोरपि वधस्य दंडो महानभवत् । अन्यदा तद्राज्य एकेन श्रेष्ठिना जानता सतैका युका विराधिता । राज्ञा गुप्तचरैरेतज्ज्ञातम्। अपराधदंडे तेनेभ्य आदिष्टः - ‘त्वयैकं जिनमंदिरं निर्मापयितव्यम् ।' श्रेष्ठिना तथैव कृतम् । तस्य च जिनालयस्य राज्ञा 'युकाविहार' इति नाम स्थापितम् । ___सः कुमारपालवसुधापाल आयतौ गणभृद्भावी । स्वयं वीरविभुना श्रेणिकराज्ञोऽग्रे कथितं - ‘मदुपदेशेन त्वं तादृगहिंसापालनं न कारयिष्यसि यादृगहिंसापालनं मच्छासने हेमचंद्रसूर्युपदेशेन कुमारपाल: कारयिष्यति।
SR No.023186
Book TitleKumarvihar Shatakam
Original Sutra AuthorN/A
AuthorRamchandragani, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2003
Total Pages176
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy