________________
श्रीकुमारविहारशतकम्
XV
PASSIS Ho
परिमल:
BIEWea
यथा कुसुमस्य परिमलेन कुसुमस्य परिचयो भवति तथास्य 'परिमलस्य' पठनेनैतस्य काव्यकुसुमस्य परिचयो वाचकवृन्दानां भविष्यति। अतोऽत्र नेत्रेऽवधार्येताम् ।
अस्मिञ्जगति विविधाः प्रसङ्गाः संजायन्ते । तेषु केचिच्छोभनाः केचन चासुंदरा अपि सन्ति । सर्वानप्येतान्प्रसङ्गान्कविरेव छद्मस्थेषु यथार्थरुपेणालौकिकरुपेण च वर्णयितुं समर्थो भवति । स एव कविरुच्यते यः स्वप्रतिभया सर्वान्प्रसङ्गानलङ्कारिभाषया वर्णयति । कवावीदृश्य
द्भूतरचनाशक्तिर्वर्तते सेश्वरकृपयैव मन्तव्या। गुर्जरभाषागतैकसुभाषितभावार्थ ईदृगस्ति - यं नाप्नोति रविः (स्वकिरणैः) तं प्राप्नोति कविः (स्वरचनया)।
जैनसाहित्येतिहास ईदृशा नैकाः कवयो भूतपूर्वाः । तेषु पूज्यपादाः सुगृहीतनामधेयाः रामचंद्रगणिवराः सुप्रसिद्धाः सन्ति । तैः स्वजीवनानेहसि प्रभूतानि ग्रन्थ-काव्यानि रचितानि । निर्भयभीमव्यायोग-रघुविलासनाट्यद्रव्यालंकार-राघवाभ्युदयमहाकाव्य-यादवाभ्युदयमहाकाव्य-नलविलासमहाकाव्येत्यादयः तेषां मुख्यकृतयः । ‘प्रबंधशतककर्ता' इति तेषामुपाधिरासीत् । तेषां कृतिषु ‘कुमारविहारशतकं' त्वतीवोत्तमा कृतिरस्ति । तेषां काव्यप्रतिभाया अनुभूतिस्त्वस्य काव्यरत्नस्य पठनानंतरमेव स्यात् ।