SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ जपे (जये) योग्ये दुष्टे - [५८] इत्येकाक्षरनाममालिका विश्वशम्भुकृता, णानां णो यस्य स णण: = दुष्टजय: बाह्याभ्यन्तरसर्वरिपूणां जेतेत्याशय: अचिन्त्यबलवत्त्वात्, तम् । पुन: कीदृशम् ? णुणा-ऽणीणणम् । णुण: णुः = भू: पृथ्वीत्यर्थ: → णु: करेणुर्भूः - [५५] इत्येकाक्षरनाममालिका सौभरिग्रथिता, ण: = भूषण: → ण: पुमान् बिन्दुदेवे स्याद् भूषणे 6 [१२] इति मेदिनीकोशो मेदिनीकरग्रथितः, णोर्ण इति गुण: = भूभूषण: तदलङ्कारायमाणत्वात् । अणीणण: + णी: = क्षीणम् → क्षीरे (क्षीणे) रणे धने धान्ये णी: 6 [५९] इत्येकाक्षरनाममालिका विश्वशम्भुगुम्फिता, णम् = ज्ञानम् → णं सरोजदले ज्ञाने - [४३] इत्येकाक्षरकाण्ड: कविराघवभणित:, णम् = दर्शनम् → णं दर्शनमिति स्मृतम् - [५६] इत्येकाक्षरनाममाला सौभरिप्रोक्ता, न णीरित्यणीरक्षीणमित्यर्थः, णञ्च णञ्चेति णणे, अणियौ णणे यस्य स अणीणण: = अक्षीणज्ञानदर्शन: ज्ञानावरणीयदर्शनावरणीयकर्मशून्यत्वात् ।। __णुणश्चासावणीणणश्चेति णुणा-णीणण: = भूभूषणा-ऽक्षीणज्ञानदर्शन:, तम् । पुन: कीदृशम् ? णणाणणणम् + णः = निःश्रेयस: मोक्ष इत्यर्थः → णस्तु निःश्रेयसे 6 [२१] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनप्ररूपित:, णम् = ज्ञानम् → णं संशोध्यजले ज्ञाने - [६२] इत्येकाक्षरशब्दमालाउमात्यमाधवप्रणीता, णस्य णं यस्य स णण: = निर्वाणज्ञान:, न णण इत्यणण: अनिर्वाणज्ञान इत्यर्थः, णणश्चाणणश्चेति णणाणणौ = मोक्षज्ञानाइमोक्षज्ञानौ, ज्ञान्येकोऽज्ञान्यपर इति द्वयोर्भेदः, अथवास्तिकनास्तिकावित्यप्यर्थः, तयोः = उभयोरुपरि णा = कृपा → णा स्त्रियां ध्वजिनीशय्याधेनुनासाकृपासु च 6 [४३] इत्येकाक्षरकाण्ड: कविराघवनिर्मित:, यस्य स णणाणणण: = निर्वाणज्ञानाऽनिर्वाणज्ञानकृप: समदर्शित्वान्निष्पक्षत्वाच्च, तम् । पुन: कीदृशम् ? णणा-ऽणूम् । णण: ७ णम् = सरोजदलम् → णं सरोजदले - [३७] इत्येकाक्षरकाण्ड [ण:] अर्हत्स्तुति:
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy