________________
= पिशाच: → डशब्द: पुंसि डिण्डीरे हस्ते चापि भगन्दरे पिशाचे * [६०] इत्येकाक्षरनाममालाडमात्यमाधवगुम्फिता, ड: = जय: → ड: पुमान् विषये शम्भौ हासे त्रासे जये - [३९] इत्येकाक्षरकाण्ड: कविराघवभणित:, ड एव ड इति डड: = भयङ्करपिशाच:, ड एव डड इति डडडस्तस्य डो यस्य स डडडड: = विषयभीमपिशाचजेता, तम् ।।
पुनः कीदृशम् ? डडा-ऽडाडा-उडडम् ।
डड: - डः = अतिशय: → डकारोऽतिशये - [२७] इत्यजिरादिएकाक्षरीनाममालाऽज्ञातप्रोक्ता, ड: = क्षान्ति: → क्षान्तिर्दारकश्च डामरो दक्षगुल्फग: व्याघ्रपाद: शुभाङ्घिश्च डकार: - [३१] इत्येकाक्षरीमातृकाकोषोऽज्ञातप्ररूपित:, डो डो यस्य स डड: = अतिशयक्षान्तिमान् क्षमाशीलत्वात्, अथवा ड: = इक्षुरस: → डकारोऽतिशये रतदुरसाविस्मये इक्षुरसे - [२७] इत्यजिरादिएकाक्षरीनाममालाऽज्ञातप्रणीता, ड: = वाचा → ड: पुमान् विषये... व्रीडावाचो: * [३३] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथरचित:, ड इव डो यस्य स डड: = इक्षुरसवाक् परममाधुर्यात् ।
अडाड: - डा = रमा लक्ष्मीरित्यर्थः → डा क्ष्मा च सरमा रमा - [५१] इत्येकाक्षरनाममाला सौभरिनिर्मिता, ड: = राग: → डशब्द: पुंसि डिण्डीरे हस्ते चापि भगन्दरे पिशाचे पथिके काले रागे - [६०] इत्येकाक्षरशब्दमालाडमात्यमाधवविहिता, नास्ति डाया डो यस्य स अडाड: = रमारागरहित: वैराग्यवारिधिविलग्नत्वात् ।
अडड: * ड: = विस्मय: → डकारोऽतिशये रतदुरसाविस्मये . [२७] इति पूर्वोक्ताजिरादि-एकाक्षरीनाममालावचनाद्, ड: = भयम् → ड: पिशाचे भये - [६९] इति पूर्वोक्तकालिदासव्यासोक्तेः, डश्च डश्चेति डडौ, न विद्येते डडौ यस्य स अडड: = विस्मयभयरहित: सर्वज्ञत्वाच्छौर्यशालित्वात्, पूर्व परभीभेदकत्वमुक्तमत्र स्वयमेव निर्भय इत्याशयः ।
डडश्चासावडाडश्चेति डडा-ऽडाडः, डडा-ऽडाडश्चासावडडश्चेति डडाऽडाडाडडडः = इक्षुरसवाग्रमारागरहिताविस्मयभय:, तम् । [ड:] अर्हत्स्तुतिः