SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ अथ दुःखशून्यस्य वीतरागत्वमपि स्पष्टमेव, तदाह । पुनः कीदृशम् ? झडम् - झ: = नष्ट: → झो नष्टे 6 [8] इत्येकाक्षरनाममालिका श्रीअमरचन्द्रसूरिप्रोक्ता, डः = राग: → ड: शब्द: पुंसि डिण्डीरे हस्ते चापि भगन्दरे पिशाचे पथिके काले रागे च परिकीर्त्यते - [६०] इत्येकाक्षरशब्दमालाडमात्यमाधवप्ररूपिता, झो डो यस्य स झड: = नष्टराग: रागरहित इत्यर्थः, विरक्तिवार्धिविलग्नत्वात्, तम् । पुन: कीदृशम् ? थपम्यम् - थ: = श्रान्त: → थो मिथ्यावाचके श्रान्ते . [६४] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, प: = पापी → प: पापी - [६९] इत्येकाक्षरनाममाला सौभरिरचिता, म्य: = यम: → म्यो मयो यम: - [१६] इति ट्यक्षरकाण्ड: सौभरिनिर्मित:, पाश्च म्यश्चेति पाम्या:, था: पाम्या यस्मात् स थपम्य: = श्रान्तपापियम: सद्धर्मप्ररूपकत्वाज्जन्ममृत्युविरहाद्, तम् । पुन: कीदृशम् ? शम् - श: = शोभन: → श ? (श:) सूर्ये शोभने [१०८] इत्येकाक्षरनाममालिका विश्वशम्भुविहिता, सर्वसौन्दर्यस्वामित्वाद्, तम् । पुन: कीदृशम् ? खचम् - खम् = व्योम » खं स्व: संविदि व्योमनीन्द्रिये - [१-५] इत्यनेकार्थसङ्ग्रहः श्रीहेमचन्द्राचार्यग्रथित:, च: = विमल: → चं क्लीबे विमले त्रिषु - [२९] इत्येकाक्षरकाण्ड: कविराघवगुम्फितः, खवच्च इति खच: = व्योमविमल: कर्मकालुष्याकलितत्वात्, तम् । पुनः कीदृशम् ? अढम् + ञः = मुनि: → जो मुनौ — [१९] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनप्रोक्तः, ढम् = वरम् → ढं पयो वरम् । [५४] इत्येकाक्षरनाममाला सौभरिप्ररूपिता, जेषु ढमिति अढम् = मुनिश्रेष्ठ: साधुसत्तम इत्यर्थः, अतिचारादिदोषाऽनाचारित्वात्, तद् ।। पुन: कीदृशम् ? दफम् - दः = क्षीण: → दो दाने पूजने क्षीणे - [६७] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, फम् = लोभ: → फं क्लीबे लाभे लोभे - [८५] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, दो फं यस्य स दफः = क्षीणलोभ: वीतरागत्वान्निष्कषायत्वाच्च, तम् । पुन: कीदृशम् ? गम् + गम् = शुभम् + गकारं तु...शुभम् - [१८] इत्येकाक्षरनाममालाऽज्ञातनिर्मिता, कल्याणकरत्वात्, तद् ।। पुन: कीदृशम् ? टणम् + ट:=पृथिवी → ट: पृथिव्याम् + [२०] मङ्गलाचरणम्
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy