________________
प्रशस्तिः
जरा जरासन्धनृपेण मुक्ता, निश्चेष्टमानुषी कृष्णसैन्यम् । पलायिता यत्स्नपनाम्बुना तं, शङ्खेश्वरं पार्श्वजिनं नमामि ॥ १ ॥ अद्याप्यवद्यरहितां विबुधाः सुधाभां, भावामयप्रशमनीं शमनीयतापाम् । वाचं निपीय समतामसमां श्रयन्ते, यस्य स्वीमि चरमं तमहं जिनेशम् जगत्प्रभोस्तस्य मुखाद् विनिर्गतां,
निशम्य रम्यां त्रिपदीं विनिर्ममे । यो द्वादशाङ्गीं शिवमार्गदीपिकां,
जीयात् सुधर्मा गणभृत् स सर्वदा तत्पट्टे क्रमशो जम्बूस्वामिप्रभृतयस्ततः । सूरयो भूरयोsभूवभज्ञानतिमिरांशवः अकब्बरक्षोणिपतिः स्वराज्ये, यस्योपदेशैः प्रतिबोधमाप्य । अमारिमुद्घोषयति स्म सूरिः, श्रीहीरपूर्वो विजयस्ततोऽभूत् ॥५
11 8 11
॥ २ ॥
113 11