________________
॥ सूरिप्रेमाष्टकम् ॥
रचयिता
4
-
पंन्यासः कल्याणबोधिविजयगणी
( उपजाति)
प्रकृष्टशक्तावपि मुक्तवान् यो व्याख्यानदानं परसत्त्ववान् हिः ।
ब्रह्मैकनिष्ठामनुपालनाय पायात्स पापात् परमर्षि - प्रेमः ॥ १ ॥
मिष्टान्न भोज्यानि फलानि यो हि आम्रप्रमुखाण्यपि भुक्तवान्न । मां जिह्मजिह्वाजडनागपाशात् पायात्स पापात् परमर्षि - प्रेमः ॥२॥
आक्रोशसोढाऽनपराधकारी स्वरक्षणे यस्य न काऽपि वाञ्छा । अहो! प्रशान्ति - नतमस्तकर्षिः पायात्स पापात् परमर्षि - प्रेमः ||३||
वृद्धेऽपि काये बहुरुग्निकाये न यस्य काङ्क्षा प्रतिकर्मणे हि । अन्तोऽरियोद्धा भवभीतिधर्ता पायात्स पापात् परमर्षि - प्रेमः ॥४॥