SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ VIII1111111111111111111111111111 ॥ सूरिप्रेमाष्टकम् ॥ रचयिता - पंन्यासः कल्याणबोधिविजयगणी (उपजाति) प्रकृष्टशक्तावपि मुक्तवान् यो व्याख्यानदानं परसत्त्ववान् हिः । ब्रह्मैकनिष्ठामनुपालनाय | पायात्स पापात् परमर्षि-प्रेमः ॥१॥ मिष्टान्नभोज्यानि फलानि यो हि आम्रप्रमुखाण्यपि भुक्तवान्न । मां जिह्मजिह्वाजडनागपाशात् पायात्स पापात् परमर्षि-प्रेमः ॥२॥ आक्रोशसोढाऽनपराधकारी स्वरक्षणे यस्य न काऽपि वाञ्छा। अहो! प्रशान्ति-नतमस्तकर्षिः पायात्स पापात् परमर्षि-प्रेमः ॥३॥ वृद्धेऽपि काये बहुरुग्निकाये न यस्य काङ्क्षा प्रतिकर्मणे हि । अन्तोऽरियोद्धा भवभीतिधर्ता पायात्स पापात् परमर्षि-प्रेमः ॥४॥ AIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIII
SR No.023174
Book TitleSubhashit Padya Ratnakar Part 01
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages436
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy