________________
( २ )
सुभाषित-पद्य - रत्ना१२.
॥ २ ॥
श्रीभोयणीग्रामगतं प्रभास्वरं, नमाम्यहं मल्लिविभुं जिनेश्वरम् ।
श्रीधर्मसूरिं च ततो गुरोर्गुरुं,
वन्दे त्रिधा पण्डितपूज्यपत्कजम् ॥
॥३॥ धर्मो विज्ञवरेण्यसेवितपदो धर्म भजे भावतो, धर्मेणावधुतः कुबोधनिचयो धर्माय मे स्यामतिः । धर्माचिन्तितकार्यपूर्त्तिरखिला धर्मस्य तेजो महद्, धर्मे शासनराग- धैर्यसुगुणाः श्रीधर्म ! धर्म दिश ॥
11 8 11
अपूर्वशान्त्यादिगुणैरनुत्तरं,
सज्ज्ञान- धैर्येण जगत्प्रतिष्ठितम् । आदौ जयन्तं विजयं ततः परं, वन्दे सुवन्द्यं गुरुमुत्तमं मुदा ॥
॥ ५ ॥
एषां प्रसादं प्राप्य, श्लोकान् लोकहिताय संगृह्य । कुर्वेऽनुवादं तेषां विशालविजयो मुनिः सम्यक् ॥