________________
चतुर्थःप्रकाशः . ( १२३ ) तथाहिश्रीअजितनाथचरित्रे. “ उदयक्षयक्षयोपशमोपशमाःकर्मणांभवन्त्यत्र ।। द्रव्यं क्षेत्रकालंभावञ्चभवञ्चसम्प्राप्य ॥१॥” इति २९ प्रश्न-ननुचन्द्रादयोग्रहाचारविशेषेण प्राणिनां सुखःदुखविपाक
हेतवो भवन्तिकिंवानेतिप्रश्नः उत्तर-उच्यते प्रायस्ते प्राणिनां सुखदुःखविपाकहेतवो भवन्तिपरं
विशेषविस्तरार्थिनात्वत्र श्रीलोकप्रकाशग्रन्थोविलोकनीयः
सचग्रन्थोयम्. " एतेचन्द्रादयःप्रायःप्राणिनांप्रसवक्षणे ॥ तत्तत्कार्योपक्रमेवावर्षमासाद्युपक्रमे ॥ ८४ ॥ अनुकूलाःसुखंकुर्युस्तत्तद्राशिमुपागताः ॥ प्रतिकूलाःपुनःपीडांप्रथयन्तिप्रथीयसीम् ॥ ८५॥ ननुदुःखसुखानिस्युःकर्मायत्तानिदेहिनाम् ॥ ततःकिमेभिश्चन्द्राद्यैरनुकूलैरुतेतरैः ॥८६॥ आनुकूल्यंप्रातिकूल्यमागताअप्यमीकिमु ॥ शुभाशुभानिकर्माणिव्यतीत्यकर्तुमीशते ॥८७॥ ततोमुधास्तामपरेनिम्रन्थानिःस्पृहाअपि ॥ ज्योतिःशास्त्रानुसारेणमुहूर्तेक्षणतत्पराः ॥८॥ प्रवाजनादिकृत्येषुप्रवर्तन्तेशुभाशयाः ॥ खामीमेघकुमारादिदीक्षणेतत्किमैक्षत ॥ ८९॥
चतुर्भिःकलापकम्