________________
कायस्थित्या । एते च दुःखबहुला उत्कटाऽशातावेदनीयाः, मोहान्धकारास्तदुदयतीव्रतया, अकुशलानुबन्धिनः, अतोऽयोग्याः शुद्धधर्मस्य चारित्रलक्षणस्य । योग्यं चैतन्मनुजत्वं पोतभूतं भवसमुद्रे तदुत्तारकत्वेन, अतोयुक्तं स्वकार्ये नियोक्तुं धर्मलक्षणे ।
कथम् ? इत्याह - संवरस्थगितछिद्रं, छिद्राणि प्राणातिपातविरमणादीनि । तथा ज्ञानकर्णधारमभीक्ष्ण्यं तदुपयोगतः । तपःपवनजवनमनशनाद्यासेवनतया, एवं युक्तं स्वकार्ये नियोक्तुम् । किमित्यत आह - क्षण एष दुर्लभः । क्षणः प्रस्तावः सर्वकार्योपमातीतः, सिद्धिसाधकधर्मसाधकत्वेन हेतुना। उपादेया चैषा जीवानां सिद्धिरेव यन्नाऽस्यां जन्मादिः, नान्यः कश्चन दोषः शीतोष्णादिः, सर्वथाऽ परतन्त्रं जीवावस्थानमस्यां सिद्धाविति प्रक्रमः । अशुभरागादिरहितमेतदवस्थानम् ।
एतदेव विशिष्यते । शान्तं शक्तितोऽपि क्रोधाद्यभावेन, शिवं सर्वाऽशिवाऽभावतः, अव्याबाधं निष्क्रियत्वेनेति । * पंथसूत्र प्रश' :
વળી, એ તો વિચારો : મૃત્યુ શું નથી આવવાનું ? આ ભવના સંયોગને તે ક્ષણભરમાં ખંડિત નહીં કરી દે ? મૃત્યુના પ્રસારને એક પણ ઉપાય વડે અટકાવી શકાય તેમ નથી તેથી મૃત્યુ ઉદ્દામ છે. એટલું જ નહીં, જો આપણે અલ્પ આયુષ્યવાન હોઈશું તો તો તે મૃત્યુ અત્યંત કરીબ પણ હોઈ શકે ! કેટલી ચિંતાકારી બાબત છે !
95
तृतीयं प्रव्रज्याग्रहणविधिसूत्रम् ।