________________
एतद् विशेषेणाऽऽह - वर्जयेदनेकोपघातकारकं सामान्येन, गर्हणीयं प्रकृत्या, बहुक्लेशं प्रवृत्तौ, आयतिविराधकं परलोकपीडाकरं समारम्भमङ्गारकर्मादिरूपम् । न चिन्तयेत् परपीडां सामान्येन । न भावयेद् दीनतां कस्यचिदसम्प्रयोगे । न गच्छेद् हर्ष कस्यचित्सम्प्रयोगे । न सेवेत वितथाऽभिनिवेशं अतत्त्वाध्यवसा -यम् । किन्तूचितमन:प्रवर्तकः स्यादेवन्न भाषेताऽनृतमभ्याख्यानादि, न परूषं निष्ठुरं, न पैशून्यं परप्रीतिहारि, नाऽनिबद्धं विकथादि किन्तु हित-मितभाषकः स्यात्सूत्रनीत्या ।
एवं न हिंस्याद् भूतानि पृथिव्यादीनि । न कुर्यादनर्थदण्डमपध्यानचरितादि किन्तु शुभकाययोगः स्यादागमनीत्या । तथा लाभोचितदानो (भोगश्चा) ऽष्टभागाद्यपेक्षया । लाभोचितपरिवार -श्चतुर्भागादिभर्तव्यपरिमाणेन । लाभोचितनिधिकरः स्याच्चतुर्भागाद्यपेक्षयैव, उक्तञ्चाऽत्र लौकिकैः -
पादमायान्निधिं कुर्यात्, पादं वित्ताय वर्धयेत् ।
धर्मोपभोगयोः पादं, पादं भर्तव्यपोषणे ॥ तथाऽन्यैरप्युक्तम्,
आयादर्धं नियुञ्जीत, धर्मे यदाऽधिकं ततः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छ मैहिकम् ॥
तथाऽसन्तापकः परिजनस्य स्यादिति वर्तते शुभप्रणिधानेन । गुणकरो यथाशक्ति भवस्थितिकथनशीलत्वेन । अनुकम्पापरः
73
द्वितीयं साधुधर्मपरिभावनासूत्रम् ।