SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ तस्स पुण विवागसाहणाणि = चउसरणगमणं, दुक्कडगरिहा, सुकडाणसेवणं । अओ कायव्वमिणं होउकामेणं सया सुप्पणिहाणं, भुज्जो भुज्जो संकिलिसे, तिकालमसंकिलिसे । * अवचूरिः । एतस्य भवस्य व्यवच्छित्तिः शुद्धधर्मात् ज्ञानादिरूपत्वात्, शुद्धधर्मसंप्राप्तिः पापकर्म मिथ्यात्वमोहनीयादि तद्विगमात्, पापकर्मविगमस्तथाभव्यत्वादिभावात् । भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपारिणामिको भावः, तथाभव्यत्वमिति विशिष्टमेतत्, आदिशब्दात् काल-नियति-कर्म-पुरुषकारणपरिग्रहः । साध्यव्याधिकल्पत्वात् तथाभव्यत्वस्य । तस्य पुन-स्तथाभव्यत्वस्य विपाकसाधनानि अनुभावकारणानि चतुःशरणगमनादीनि । कृत-कारिताऽनुमतिभेदभिन्ने हि पुन्यपापे। एभि -स्तथास्वाभाव्यात् साध्यव्याधिवत् तथाभव्यत्वं परिपाल्य -[च्य] ते । अतः कर्तव्यमिदं वक्ष्यमाणं भवितुकामेन मोक्षार्थिना भव्यसत्त्वेन । सदा सुप्रणिधानं यदा यदा क्रियते तदा तदा सुप्रणिधानं कर्तव्यं कर्तव्यम्, सुप्रणिधानस्य फलसिद्धौ प्रधा -नाऽङ्गत्वात् । कर्तव्यमिदं भूयः संक्लेशे सति तीव्ररागादि सावचूरि-सटीकानुवादं पञ्चसूत्रम् । 24
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy