________________
साद्यपर्यवसितं एकसिद्धापेक्षया प्रवाहतस्त्वनादि तदोघमा -श्रित्य । तथा चाह - तेऽपि भगवन्तः सिद्धा एकसिद्धापेक्षया साद्यपर्यवसिताः, प्रवाहापेक्षयाऽनाद्यपर्यवसिता ।
समाने भव्यत्वादौ कथमेतदेवमित्याह - तथा भव्यत्वादिभावात् । तथाफलपरिपाकीह तथाभव्यत्वम् । अत एवाह - विचित्रमेतत् तथाभव्यत्वादि तथाफलभेदेन । कालादिभेदभाविफलभेदेनेत्यर्थः । समाने भव्यत्वे सहकारिभेदात् फलभेद इत्याशङ्कापोहायाह - ना विचित्रे तथाभव्यत्वादौ सहकारिभेदः । किमित्यत आह - तदपेक्षस्तक इति, तदतत्स्वभावत्वे तदुपनिपाता -ऽभावात् । ___ अनेकान्तवादस्तत्त्ववादः सर्वकारणसामर्थ्यापादनात् । स खल्वनेकान्तवाद एवं तथाभव्यत्वादिभावे, इतरथैकान्तः सर्वथा भव्यत्वादेस्तुल्यतायाम् । मिथ्यात्वमेष एकान्तः । कुत इत्याह - नातो व्यवस्था एकान्तात् । भव्यत्वाऽभेदे सहकारिभेदस्याऽयोगात् तत्कर्मताऽभावात् । कर्मणोऽपि कारकत्वात्, अतत्स्वभावस्य च कारकत्वासम्भवादिति भावनीयम् ।
अत एवाह - अनार्हतमेतदेकान्ताश्रयणम्, प्रस्तुतसाधकमेव न्यायान्तरमाह - संसारिण एव सिद्धत्वम्, नाऽन्यस्य । कोऽयं नियम इत्याह - नाऽबद्धस्य मुक्तिः शब्दार्थरहिता बन्धाऽभावेन । अयञ्चानादिमान् बन्धः प्रवाहेण सन्तत्या अतीतकालतुल्यः, स हि
पञ्चमं प्रव्रज्याफलसूत्रम् ।
177