________________
अत एव सम्प्राप्तनिजस्वरूपः केवलो जीवः, अक्रियोगमनादिशून्यः, स्वभावसंस्थितः सांसिद्धिकधर्मवान् । अत एवाह - अनन्तज्ञानोऽनन्तदर्शनोज्ञेयाऽनन्तत्वात् स्वभाव-श्चास्याऽयमेव । यथोक्तं -
स्थित: स्थितांशुवज्जीव: प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ॥ (यो.दृ. १८३)
अथ कीदृशोऽसौ वर्ण-रूपाभ्यां इत्याशङ्कापोहायाह - स सिद्धो न शब्दो न रूपं न गन्धो न रसो न स्पर्शः पुद्गलधर्मत्वादमीषां । अभावस्तर्हि ? इत्येतदपि नेत्याह - अरूपिणी सत्ता ज्ञानवत् । अनित्थंस्थसंस्थाना, इदम्प्रकारमापन्नमित्थं, इत्थं स्थितं इत्थं संस्थानं यस्या अरूपिण्याः सत्ताया सा यथोक्ता । अनन्तवीर्या इयं सत्ता प्रकृत्यैव । तथा कृतकृत्या निष्पादनेन निवृत्ततच्छक्तिः । सर्वबाधाविवर्जिता द्रव्यतो भावतश्च । सर्वथा निरपेक्षा तच्छक्त्यपगमेन । अत एव स्तिमिताः प्रशान्ताः सुखप्रकर्षादनुकूला निस्तरङ्गमहोदधिकल्पा । अस्या एव परमसुखत्वमाह- असांयोगिक एष आनन्दः सुखविशेष । अत एव निरपेक्षत्वात् परो मतः प्रधान इष्टः । * 'यसूत्र प्रश' :
પંચસૂત્રના ચોથા સૂત્રમાં સાધુધર્મનું પરિપાલન કેવું કરવું જોઈએ તેનું વર્ણન કર્યું અને હવે સાધુધર્મનું શાસ્ત્રોક્ત પરિપાલન કરનારો આત્મા તેના કેવા પ્રકારના ફળને પામે છે તેનું વ્યાખ્યાન કરીશું.
पञ्चमं प्रव्रज्याफलसूत्रम् ।
165