________________
एवंभूतः क्षपयति लोकसंज्ञां भगवद्वचनप्रतिकूलां प्रभूतसंसाराभिनन्दिसत्त्वक्रियाप्रीतिरूपाम् । अत एवाह - प्रतिश्रोतोगामी लोकाचारप्रवाहनदीं प्रति । अनुश्रोतोनिवृत्तः । ___ एवं सदा शुभयोगः श्रामण्यव्यापारसङ्गत एष योगी व्याख्यातो भगवद्भिः । एष आराधकः श्रामण्यस्य, यथागृहीतप्रतिज्ञः आदित आरभ्य सम्यक् प्रवृत्तेः । एवं सर्वोपधाशुद्धोनिरतिचारत्वेन ।
किमित्याह - संधत्ते शुद्धं भवं जन्मविशेषलक्षणं भवैरेव । सम्यगभवसाधकं सत्क्रियाकरणेन मोक्षसाधकमित्यर्थः । निदर्शनमाह- भोगक्रिया सरूपादिकल्पं, न रूपादिविकलस्यैताः सम्यग् भवन्ति । यथोक्तं - 'रूप-वयो-वैचक्षण्य-सौभाग्य-माधुर्यैश्वर्यादीनि भोगसाधनम् [ ]'
ततस्ताः सम्पूर्णाः प्राप्नोति सुरूपादिकल्पाद् भवाद् भोगक्रिया इत्यर्थः । अविकलहेतुभावतः कारणात् । असंक्लिष्टसुखरूपा । अपरोपतापिन्यस्तथा सुन्दरा अनुबन्धेन अत एव हेतोः । न चान्याः सम्पूर्णा उक्तलक्षणेभ्यो भोगक्रियाभ्यः । कुत इत्याह तत्तत्त्वखण्डनेन, सङ्क्लेशादिभ्य उभयलोकापेक्षया भोगक्रियास्वरूपखण्डनेनेति भावः । * 'यसूत्र प्रश' : • ગુરુ બહુમાન વિનાનું સંયમ પાલન કેવું?
149
चतुर्थं प्रव्रज्यापरिपालनासूत्रम् ।