________________
,
नेवमहीयमहीयं, अवगमविरहेण न एसा मग्गगा - मिणो । विराहणा अणत्थमुहा, अत्थहेऊ, तस्सा - रंभओ धुवं । एत्थ मग्गदेसणाए अणभिनिवेसो, पडिवत्तिमेत्तं, किरियारंभो । एवं पि अहीयं अहीयं, अवगमलेसजोगओ । अयं सबीओ नियमेण । मग्ग
गामिणो खु एसा अवायबहुलस्स ।
* अवचूरिः ।
।
अनाराधनायामेकान्तेन प्रवृत्तस्य न किञ्चिदिष्टमनिष्टं वा फलं मोक्षोन्मादादि । कथमनाराधनायां न किञ्चिद् ? इत्याह - [ तस्या एव अनारम्भात् ] । अत्राऽनाराधनायां मार्गदेशनायां तात्त्विकायां दुःखं शृण्वतो भवति, उक्तञ्च- 'शुद्धदेशना हि क्षुद्रसत्त्वभृगयूथसन्त्रासनसिंहनादः' ।
तथाऽवधीरणा मनाग् लघुतरकर्मणः, न दुःखं, तथाऽप्रतिपत्तिस्ततोऽपि लघुतरकर्मणः, नावधीरणा । ततः किम् ? इत्याह नैवमनाराधनयाऽधीतमधीतं सूत्रम् । कुतः ? इत्याह - अवगमविरहेण सम्यग्बोधाऽभावेन । नैषा मार्गगामिन एकान्तमनाराधना भवति । सम्यक्त्वादिभावे सर्वथाऽसत्क्रियायोगात् । अत एवाह - विराधना प्रक्रमादध्ययनस्याऽनर्थमुखा उन्मादादिभावेन । इयञ्च गुरुतरदोषापेक्षयार्थहेतुः पारम्पर्येण मोक्षाङ्ग
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
122