SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ दधिकृतक्रियायाः । स एव विशिष्यते । विशुद्धचरणः महासत्त्वः, यत एवम्भूतोऽतो न विपर्ययमेति मिथ्याज्ञानरूपम् । एतदभावे विपर्ययाऽभावेऽभिप्रेतसिद्धिः सामान्येन । कुतः? इत्याह- उपायप्रवृत्तेरियमेव । कुतः ? इत्याह - नाऽविपर्यस्तोऽनुपाये प्रवर्तते, इयमेवाऽविपर्यस्तस्याऽविपर्यस्तता यदुतोपाये प्रवृत्तिः । अन्यथा तस्मिन्नेव विपर्ययः । एवमपि किम् ? इत्याह - उपायश्चोपेयसाधको नियमेन कारणं कार्याऽव्यभिचारीत्यर्थः । तत् स्वतत्त्वत्याग एवोपायस्वतत्त्वत्याग एवाऽन्यथा स्वयमेव साधयतामतिप्रसङ्गात् । तदसाध -कत्वाविशेषणानुपायस्याऽप्युपायत्वप्रसङ्गात् । न चैवं व्यवहारो -च्छेद आशंकनीय इत्याह - निश्चयनयमेतत्, अतिसूक्ष्मबुद्धिगम्यम् । स एवमभिप्रव्रजितः, समलोष्टकाञ्चनः सन् समशत्रु-मित्रं एवं निवृत्ताग्रहदुःखोऽतः प्रशमसुखसमेतः सम्यक् शिक्षामादत्ते ग्रहणाऽऽसेवनारूपाम् । कथम् ? इत्याह - गुरुकुलवासी तदनिर्ग -मनेन । गुरूप्रतिबद्धस्तद्बहुमानात् । विनीतो बाह्यविनयेन । भूतार्थदर्शी न इतो गुरूकुलवासात् हिततरमिति मन्यते, वचनानुसारित्वात् । वचनञ्च - नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुञ्चन्ति ॥ [पञ्चाशक-११/१६ ] 117 चतुर्थं प्रव्रज्यापरिपालनासूत्रम् ।
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy