________________
अहं पि तुम्हाणुमईए सामि एयं निव्विण्णो जम्ममरणेहिं । समिज्झइ य मे समीहियं गुरूपभावेणं । एवं सेसे वि बोहेज्जा । तओ सममेएहिं सेवेज्ज धम्मं । करेज्जोचियकरणिज्जं निरासंसो हु सव्वदा । एयं परममुणि सासणं ।
* अवचूरिः ।
विपरीतश्च संसारोऽस्याः सिद्धेर्जन्मादिरूपत्वात् सर्वोपद्रवालयः । अत एवाह - अनवस्थितः संसारः, अत्र खलु सुख्य - प्यसुखी पर्यायतः सदप्यसत्, स्वप्न इव सर्वमाकुलमास्थाs भावेनेति तदलमत्र प्रतिबन्धेन संसारे । कुरूत ममाऽनुग्रहम् । कथम् ? इत्याह - उद्यच्छतैनं व्यवच्छेत्तुं संसारं यूयम्, अहमपि युष्माकमनुमत्या साधयाम्येतस्य व्यवच्छेदनम् । किमित्यत आहनिर्विण्णोजन्म-मरणाभ्याम्, सम्यग् यदिदम्मे समीहितं संसारव्यवच्छेदनं गुरूप्रभावतः ।
एवं शेषाण्यपि भार्यादीनि बोधयेदौचित्योपन्यासेन । ततः सममेभिर्मातापित्रादिभि: सेवेत धर्मं चारित्रलक्षणम् । कथमित्याह निराशंस एव सर्वदा । एतत्परममुनिशासनं वीतरागवचनम् ।
-
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
98