________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
चन्द्र. अत्र यानि पात्रकस्य लक्षणान्यपलक्षणानि च निगदितानि, तानि सम्यगुपयुज्य बोध्यानि । तथा पात्रकस्यैतादृशशुभाशुभफलसाधकत्वं विषादिद्रव्यस्य जीवनाशकत्वमिव द्रव्यस्य तथाविधशक्तिमत्त्वसम्भवादेवादुष्टमिति । तथा च लक्षणयुक्तं पात्रकं ग्राह्यमितरनेति ।
ननु अधुना लक्षणयुक्तपात्रकाणि प्राय आधाकर्मदोषसमन्वितानि एव प्राप्यन्ते, तद्रहितानि तु पात्राणि प्रायोलक्षणरहितानि भवन्तीति किं कर्त्तव्यं ? किमाधाकर्मदुष्टाणि पात्रकाणि लक्षणयुक्तत्वेन ग्राह्याणि, किं वा लक्षणरहितानि पात्राणि आधाकर्मदोषरहितत्वेन ग्राह्याणीति चेत् यदि निर्दोषं लक्षणयुक्तं च पात्रं न लभ्येत, तर्हि लक्षणरहितमपि निर्दोषं पात्रं ग्राह्यम्, तस्याप्यभावे लक्षणसहितं सदोषं पात्रं ग्राह्यम् । यदि च सदोषं लक्षणसहितं च पात्रं पश्चाद् लक्षणरहितं भवेत्, तर्हि न तत्परिष्ठापनीयमपि तु परिभोक्तव्यमेव, अन्यथा द्वितीयस्य सदोषपात्रस्य ग्रहणे आधाकर्मादिसम्बन्धिजीवविराधनापापप्रसङ्गात् । यदि च निर्दोषापलक्षणसहित-पात्रकधारणे व्याध्यादयो महान्तो दोषाः स्युः, तर्हि तत्परिष्ठाप्य नूतनं सदोषं लक्षणयुक्तं च पात्रं ग्राह्यम्, आत्मविराधनायाः संयमविराधनासकाशाद् बलीयस्त्वादिति ।
ननु निर्दोषं लक्षणयुतं च पात्रमधुना यद्यपि सुलभमेव, तथापि तत् सामाचारीविरुद्धमस्ति यतो हि सामाचार्यां काष्ठादिनिर्मितान्येव पात्रकाणि अनुमतानि, प्रकृतानि च पात्रकाणि प्लास्टीकद्रव्यान्तरविनिर्मितानीति । ततश्चात्र किं कर्त्तव्यम्, किं गच्छीया सामाचारी बलीयसी, किं वा षट्कायविराधनापरित्यागो बलीयानिति चेत्
__ तत्तद्गच्छीयानां संयमिनां तत्तद्गच्छीयसंविग्नगीतार्था एवात्र प्रमाणमिति किमन्येनोक्तेन ।
லலலலலலலலலலலலலலலலலலலலலலலலலலலல १८६
सिद्धान्त रहस्य बिन्दुः