________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல इति चेत् प्रतिक्रमणं गुरुनिश्रायां कर्त्तव्यमिति विधिः, यतो हि प्रतिक्रमणे दैवसिकायतिचारा आलोचनीयाः, ताश्च श्रोतुं तत्प्रायश्चित्तं च दातुं गुरुरर्हति, नान्ये, ततश्च गुरोरभाव आलोचनाप्रायश्चित्तप्रदानादिको व्यवहारः कथं सङ्घटेतेति साधूनां प्रतिक्रमणार्थं गुरुप्रतीक्षणं न्याय्यम् ।
एष प्राचीनो विधिः, वर्तमाने तु गुर्वाज्ञानुसारेण प्रवर्तनं न्याय्यमिति सङ्क्षेपः ।
വാഹം ജയറാംജിറ്ററ്റിട്ടും (१४६) आयरियो अप्पणो अतिचारं द्विगुणं चिंतइ, किंनिमित्तं ? ते साहुणो बहुगं हिंडिया ततो तत्तिएण कालेण चिंतिउं न सक्कंति ।
(ओ.नि. ६३७) andootosostostostostostorysostostostostomoolystorioskooliosystps,
चन्द्र. अयं भावः, साधूनां अधिकव्यापारवत्त्वादधिका अतिचाराः सम्भवन्ति, ततश्च प्रतिक्रमणेऽतिचारचिन्तनकाले तेषां प्रभूतकाले नातिचारचिन्तनं शक्यं भवति, गुरोश्चात्यल्पव्यापारत्वादतिचाराल्पता, तत अल्पेनैव कालेनातिचारचिन्तनं शक्येत कर्तुम्, ततश्च गुरोः साधूनां चातिचारचिन्तने कालभेदो भवेदेव, तन्निवारणार्थं गुरुणा अतिचारचिन्तनं वारद्वयं करणीयम्, येन तावत्कालेन साधूनामपि अतिचारचिन्तनं सम्पूर्ण स्यात्, ततश्च उभयेषां समानेन कालेनातिचारचिन्तनं संपूर्णं भवेदिति ।।
ननु गुरोः साधूनां च प्रायः समानकालेनैवातिचारचिन्तनं संपूर्णं भवेदिति अस्य आग्रहः किमर्थः ? गुरुः एकवारमेवातिचारान् चिन्तयित्वा कायोत्सर्गं च पारयित्वा तिष्ठेत्, साधवश्च स्वातिचारान् चिन्तयित्वा कायोत्सर्ग पारयेयुः, ततश्च समकमेव प्रतिक्रमणं कुर्युरिति एवंकरणे न कोऽपि दोषो दृश्यतेऽस्माकमिति चेत् _____न, गुरुं पारितकायोत्सर्ग ज्ञात्वा साधवोऽपि त्वरयन्ति, ततश्चातिचारचिन्तनं न सम्यग्भवति, तदभावे चारित्रशुद्ध्यभावः, तथा यदि साधवश्चिरेण पारयन्ति कायोत्सर्गम्, तर्हि तावत्कालं गुरुः किं कुर्यात् ? ततश्च गुरोरपि मनःस्थिरतार्थं द्विगुणं अतिचारचिन्तनं न्याय्यम् । ஒலைவஓஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒலுவலை सिद्धान्त रहस्य बिन्दुः
१८३