________________
७७७०७०
७७७०७०७
अत्र प्रथममते अन्तर्भूमौ भागत्रयम्, प्रत्येकभागे च भागद्वयं प्रकल्पितम् । द्वितीयम चान्तर्भूमौ भागद्वयम्, प्रत्येकभागे च भागत्रयं प्रकल्पितम् । तथा प्रथममते त्रिषु भागेषु सह्यासह्यशङ्काभ्यां द्वौ भागौ, द्वितीयमते च प्रथमं सह्यासह्यशङ्काभ्यां द्वौ भागौ, ततश्च द्वयोर्भागयोः श्वादिप्रतिबन्धापेक्षया त्रयो भागा इत्येवं तारतम्यमस्ति । बहिर्भूमावपि एवमेव भागत्रयं कल्प्यम् ।
ननु तर्हि मतद्वयमध्ये किं सत्यं किं वा नेति चेत् द्वितीयमतं सत्यमिति वृत्तिपाठादवसीयते, तथा हि इदानीं क्व ताः स्थण्डिलभूमयः प्रत्युपेक्षणीयाः इत्यत आह - अधिकासिका भूमयो याः सञ्ज्ञावेगेनापीडितः सुखेनैव गन्तुं शक्नोति, ता एवंविधाः अन्तः मध्येऽङ्गणस्य तिस्रः प्रत्युपेक्षणीया: ? एका स्थण्डिलभूमिर्वसतेरासन्ना, मध्येऽन्या अन्या दूरे, एवमेतास्तिस्रः स्थण्डिलभूमयो भवन्ति, तथाऽन्यास्तिस्त्र एव तस्मिन्नेवाङ्गणे आसन्नतरे भवन्ति अनधिकासिकाःसञ्ज्ञावेगोत्पीडितः सन् या याति ताः तिस्र एव भवन्ति, एका वसतेरासन्नतरे प्रदेशेऽन्या मध्येऽन्या दूरे, एवमेता अन्तः मध्येऽङ्गणस्य षड् भवन्ति ← इति पाठः । अत्रान्तर्भूमौ भागद्वयं कल्पयित्वा प्रत्येकभागे भागत्रयमेव प्रदर्शितं दृश्यत इति द्वितीयमतस्यैव सत्यता प्रतीयत इत्यलमधिकेनेति ।
७७७०
J.C
१८२
४७०७०
( १४५ ) एवं सूर्यास्तमयानन्तरं यदि निर्व्याघातो गुरुः क्षणिक आस्ते, ततः सर्व एवावश्यं = प्रतिक्रमणं कुर्वन्ति, अथ श्राद्धधर्मकथादिना व्याघातो गुरोर्जातः अक्षणिकत्वं ततः पश्चाद्गुरुरावश्यकभूमौ सन्तिष्ठते । शेषास्तु साधवो यथाशक्त्याऽऽपृच्छ्य गुरुं स्वस्थाने स्वस्थाने यथारत्नाधिकतयाऽऽवश्यकभूमौ तिष्ठन्ति, किमर्थं ? ' सूत्रार्थक्षरणहेतोः ' सूत्रार्थगुणनानिमितं तस्यामावश्यकभूमौ कायोत्सर्गेण तिष्ठन्ति । (ओ.नि. ६३७ )
oooooooooooooooooooooooooooooooooooooooooooooooo
चन्द्र. ननु गुरोः धर्मकथादिनाऽक्षणिकत्वे सति किमर्थं साधवः स्वयमेव प्रतिक्रमणं न कुर्वन्ति, किमर्थं च ते गुरुं प्रतीक्षन्ते, तदर्थं च कायोत्सर्गस्थास्तावत्कालं सूत्रार्थी गुणयन्ति ?
७०७७७०७७०७०७०७०७०७०७ ७०७०७०७०७७०७०७०७०७०७०७०७०७०७०७
सिद्धान्त रहस्य बिन्दुः