________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
ननु 'वैयावृत्यमप्रतिपाति' इत्यत्रोक्तम् । परंतु “जे आसवा ते परिसवा, जे परिसवा ते आसवा" इत्याचाराङ्गवचनात् वैयावृत्यमपि केषाञ्चिदनन्तसंसारकारणं सम्भवति, ततश्च तत्र तस्याप्रतिपातित्वं कथं ? युक्तञ्चैतत् तीव्रभवाभिष्वङ्गाध्यवसाये-नाभव्या दुर्भव्याश्च वैयावृत्यं कुर्वन्तो लभ्यन्त एव, न च तेषां तदप्रतिपाति ।
किञ्चाप्रतिपातित्वं इति कोऽर्थः ? साक्षात्परम्परया वाऽवश्यं मोक्षसम्पादकत्वमिति चेत् तर्हि अभव्येषु वैयावृत्यपरेषु अव्याप्तिः, तवैयावृत्ये प्रकृताप्रतिपातित्वाभावात् । सद्गतिजनकत्वं चेत् तहि तदपि न निर्दोषम्, न हि वैयावृत्यकरा अवश्यं सद्गतिगामुका एवेति नियमः । वेयावृत्यजन्यशुभकर्मणोऽनैष्फल्यं चेत् तत्तु निकाचितस्यैव सम्भवि, अनिकाचितस्य तु वैयावृत्यजन्यशुभकर्मणो नैष्फल्यमपि सम्भवेदेव । किञ्च तपःप्रभृतिजन्यशुभकर्मणोऽपि अनया रीत्याऽनैष्फल्यं भवत्येवेति को विशेषः वैयावृत्ये, येन तस्याप्रतिपातित्वमितरेषां च सर्वेषामनुष्ठानानां प्रतिपातित्वमुद्धोष्यत इति ज्ञातुमीहे इति चेत् ____ सत्यम्, तथापि बाहुल्यापेक्षयैतदुक्तमिति न दोषः, यद्यपि वैयावृत्यस्यापि प्रतिपातोऽन्येषामपि च गुणानामप्रतिपातः सम्भवत्येव, तथाऽपि वैयावृत्ये नम्रता, उपालम्भादिसहिष्णुता, प्रमादानुपयोगादिना लेशतोऽपि क्षतौ सत्यां अवर्णवादः, स्वशरीरनिरपेक्षता परोपकारश्चेत्येवं गुणा यथा सम्भवन्ति, न तथाऽन्येषु अनुष्ठानेषु इति वैयावृत्त्यं प्रायोऽप्रतिपाति इत्युक्तम् । न तु सर्वथा तदप्रतिपातित्वमेवेति नियमः ।
किञ्च 'यस्य विवाहः, तस्य गीतयो गायन्ते, नान्येषां' इति न्यायादत्र वैयावृत्यं प्रकृतमिति तस्य गुणा गायन्ते, न चैतावन्मात्रेणान्येषां गुणानामपकर्ष इति यथानयमेतत्संयोज्यम् । तथा च दशकालिकवृत्तौ श्रीमद्धरिभद्रसूरिभिः “भरहेणवि पुव्वभवे वेयावच्चं कयं सुविहियाणं । सो तस्स फलविवागेण आसी भरहाहिवो राया । भुंजित्तु भरहवासं सामण्णमणुत्तरं अणुचरित्ता अट्ठविहकम्ममुक्को भरहनरिंदो गओ सिद्धि ।" इत्युक्त्वा तत्रैव कियदन्तरे "वैयावृत्यादिष्वपि देशे नैवोपसंहारः, गुणान्तररहितस्य भरतादेनिश्चयेन तदकरणादिति भावनीयमिति" इति प्रतिपादितम् ।
லலலலலலலலலலலலலலலலலலலலலலலலலலலல १६२
सिद्धान्त रहस्य बिन्दुः