________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல नगरनिवासिनः, नगरजनाश्चाधुनातना अतिशौचवादिनः, विशेषतश्च श्रीमन्तो जैनाः, तथा श्रीमज्जैनगृहस्थपरिचयोऽपि प्रभूतोऽधुना, विहारोऽपि प्रचुरतयाऽधुना भवति, तदेतत्सर्वं पर्यालोच्य दोषगुणांश्च परिभाव्य ऋतुबद्धकाले वस्त्राणां प्रक्षालनेऽप्रक्षालने वा यत्राल्पदोषो भवति, तत्कर्त्तव्यम्, न तु सूत्रार्थमात्रग्राहिणा भवितव्यं स्याद्वादैकजीवनजिनशासननिरतेन संयमिना । तादृशक्षयोपशमाभावात् प्रकृतपर्यालोचनासामर्थ्य तु गीतार्थशरणं ग्राह्यम्, तद्वचनानुसारेण च वर्तितव्यमित्युपदेशः ।
ഇളക്കിമാറ്റിയിട്ടുമില്ലയർമജർച്ചയില്ലാതായിട്ടുള്ളികിളിമരിച്ചിട്ടുള്ള (१०९) इदानीं स साधुः, प्रक्षालयन्कर्पटानि नाच्छोटयति रजकवत्, नापि च पिट्टयति काष्ठपिट्टनेन स्त्रीवत्, किन्तु हस्तेन मनाग्यतनया धावनं करोति,
धौतानि च वस्त्राणि आतपे न प्रतापयति, मा भूत्तत्र काचित् षट्पदी स्यात्, कानि पुनरातपे कर्तव्यानि कानि वा न कर्त्तव्यानि ? इत्याह तानि
कर्पटानि द्विविधानि भवन्ति-परिभोग्यानि अपरिभोग्यानि च, तत्र यथासङ्ख्येन छायातपयोः कर्त्तव्यानि, परिभोग्यानि छायायां शोष्यन्ते, मा भूत्तत्र षट्पदी स्यात्, अपरिभोग्यान्यातपे शोषयन्ति, तानि च कर्पटानि
शुष्यन्ति सन्ति निरूपयत्यपहरणभयात् । पश्चात्तस्य प्रक्षालनप्रत्ययमेककल्याणकं प्रायश्चित्तं दीयते । (ओ.नि. ३५८) ຂໍຂໍຂໍ້ອບໍ່ຂໍອໍຂໍຍໍຄໍຂໍຍໍຂໍຍໍຂໍຍໍຂໍຍໍຍອ້ງຍໍບໍ່ເຂົ້າຂໍຍໍຄໍຍໍຂໍຍໍຂໍຍໍຄໍເຕົ້າ
चन्द्र. वस्त्रप्रक्षालनविधिरत्र सामान्यतया प्रतिपादितः, तत्र यानि परिभोग्यानि वस्त्राणि छायायां कर्त्तव्यानि उक्तानि, तानि वार्षिकप्रक्षालनापेक्षया, सकलसंवत्सर-मप्रक्षालितानां तेषां परिभोगे मलादिवशात्षट्पदिकोत्पत्तिसम्भावनम्, ततश्च तद्रक्षणार्थं तानि छायायां शोष्यन्ते । यदि तु प्रतिपक्षं प्रतिमासं वोपधिप्रक्षालनं भवेत्, तर्हि प्रायः षट्पदिकाऽसम्भवात् आतपे शोषणेऽपि न दोष इति सम्भाव्यते ।
ननु अपरिभोग्यान्यपि छायायामेव शोष्यन्तां, किमिति आतपे शोषणेन प्रयोजनमिति லலலலலலலலலலலலலலலலலலலலலலலலலலலல १४२
सिद्धान्त रहस्य बिन्दुः