________________
दर्शनाभ्यां समग्रः सम्पूर्णः, तथा उपयुक्तो दत्तावधानः, परिणामे आयतिकालानुष्ठेयेऽर्थे, अल्पबहुत्वं गुणदोषगतं गुरुलापर्व विचारयन् शास्त्रानुसारिण्या सूक्ष्मप्रज्ञया प्रतिसंदधत् । इत्यं विचारवन्त एव हि तपोनुष्ठानादिषु सम्यक् प्रवृत्त्या विशालं फलं लभन्ते, अनीदृशास्तु लोकोत्तरपथावतारिणोऽपि अव्यावृत्तविपर्यासास्तथा प्रवर्तन्ते यथा स्वपरेषां दिङ्मृढनिर्यामका इवाकल्याणहेतवो भवन्तीति । अयं चायतिकल्याणफलानुवन्धी विचारोऽन्वयव्यतिरेकाभ्यां व्रतपरिणामनियतयोगजादृष्टसाध्य एवेति निश्चीयते ॥ ८२॥ _ अल्पबहुत्वविचारमेव दिङ्मात्रेण दर्शयतिपुलिं दुचिन्नाणं कम्माणं अक्खएण णो मुक्खो। तेण खमइ उवसग्गे पडिआरं वा कुणइ विहिणा।३। - पूर्व भवान्तरे, दुश्चीर्णानां निबिडाध्यवसायतो निकाचनावस्थां नीतानां कर्मणां ज्ञानावरणादीनां, अक्षयेणानिर्जरणेन, नो नैव, मोक्षः परमपुरुषार्थलाभलक्षणः संपद्यते यतः, तेन कारणेन, उपसगांनुपस्थितव्याध्यादिरूपान्, क्षमतेऽदीनमनस्कतयाऽनुभवति, वाऽथवा, प्रतिकारं विधिना
"फासुअएसणिएहिं फासुअओहुदेसिएहि कीएहि । पूइए मिस्सएहि आहाकम्मेण जयणाए ॥"
इत्यादिकल्पादिग्रन्थोक्तग्लानचिकित्सासूत्रानुसारिणा कुरुते, न तु गुरुलाघवालोचनविकलस्वविकल्पमात्रेण । अयं भावः
.. प्रासुकैपणीयः प्रासुकौघोडेशिक क्रीतः ।
प्रत्या मिश्रकैराधाकर्मणा यतनया .