________________
वर्तते, अप्राधान्यमात्रस्यापेक्षिकत्वेनाव्यवस्थितत्वात् , यथा जीचार्यलक्षवाभाववत्तयाऽजारमर्दको द्रव्याचार्य इति व्यपदिश्यते । तदाह
"अप्पाहने वि इहं कत्था दिट्ठो उ दन्वसहोति । ... अंगारमहगो जह दव्वायरिओ सयाऽभन्नोति"३० ॥ ..
आय: पुनर्भवति, भावयोग्यत्वे फलजननयोग्यत्वे, यथा मृत्पिण्डो घटजननयोग्यः सन् द्रव्यघट इति व्यपदिश्यते, सुश्रावकश्च साधुगुणप्रतिपत्तियोग्यो द्रव्यसाधुरिति, साधुश्च देवमावप्रतिपत्तियोग्यो द्रव्यदेव इति । तदाह-- "मिउपिंडी दव्वघडो मुसावगो तह य दध्वसाहुत्ति । साहू अ दवदेवो एमाइ सुए जो भणि३१" ॥ इति । __एतच्च योग्यत्वमेकमविकबद्धायुष्काभिमुखनामगोत्रलक्षणं नयभेदतो विचित्रं द्रष्टव्यं । तथाहि नैगमसंग्रहव्यवहारा एव त्रिविषं योग्यत्वमिच्छन्ति, स्थूलदृष्टिस्वात् , दृश्यते हि स्थूलदृशां कारणे कार्योपचारं कृत्वा इत्यं व्यपदेशप्रवृत्तिः, यथा राज्याईकुमारे राजशब्दस्य घृतप्रक्षेपयोग्ये च घटे घृतघटशब्दस्येति । ऋजुसूत्रस्तु द्विविधमेवेच्छति बद्धायुष्कमभिमुखनामगोत्रं च, पूर्वनयेभ्यो विशुद्धस्वादाधस्पातिव्यवहितत्वेनातिप्रसक्तत्वात् । शब्दादयस्तु प्रयो विशुद्धतरस्वाद् द्वितीयमप्यतिव्यवहितं न मन्यन्ते, अतिप्रसङ्गमयादेकमेव चरम
३० अप्राधान्येऽपीह कुत्रचिदृष्टस्तु द्रव्यशब्द इति ।
मनारमदको यथा द्रव्याचार्यः सदाऽभव्य इति ॥ ३१ मृत्पिण्डो द्रव्यघटः सुश्रावकस्तथा च द्रव्यलाधुरिति ।
साधुश्च द्रव्यदेव एवमादि श्रुते पतो भणितम् ।