________________
ततो मावचारित्रस्यैव प्रासे, अतशब्देन तात्त्विकज्ञानदर्शनयोरेव ग्रहणात् । इदमपि व्यवहारनयमतेन, एतमये भग्नचारित्रस्यापि कस्यचित्पश्चात्तापादिलिङ्गकश्रुतपरिणामाभङ्गाभ्युपगमात् । निश्चयनयमते तु चरणभरु श्रुतभङ्गोऽप्यावश्यकः, श्रुतफलस्य विरमणादेरमावे श्रुतस्य सत्त्वेऽप्यसत्कल्पत्वात् । तदिदमुक्तमागमे
"णिच्छयणयस्स चरणस्सुवधाए नाणदसणवहोवि । ववहारस्स उ चरणे हयम्मि भयणा उ सेसाणंति२८" ॥ भजनां पुनरोत्थं विवेचयन्ति वृद्धाः
"एवं च अभिणिवेसा चरणविधाए न नाणमाइआ तप्पडिसिदा सेवणमोहा सदहणभावेहि अणभिणिवेसाओ पुण विवजया होति तम्विधाए वि तवज्जुवलंभाओ पच्छायावाइभावेण२९ इति ।
न चात्र प्रस्तावादुभयोरेकरूपेणैव ग्रहणं युक्तं, अर्थापल्या द्रव्यशीलस्यैव ग्रहणौचित्यादिति दिक् । द्रव्यपदार्थ विवेचयितुमाह-स द्रव्याराधनाघटकः पुनः द्रव्यपदार्थः, द्विविधो द्विप्रकारः, इह जगति, सूत्रनीत्या, ज्ञातव्यः ॥१६॥
दैविध्यमेव दर्शयतिएगो अप्पाहन्ने अण्णो पुण होइ भावजोग्गत्ते । पढमो गठिगयाणं बितिओ पुण बंधगाइणं ॥१७॥
एको द्रव्यपदार्थः, अप्राधान्ये मुख्यपदार्थामावलक्षणे, २८ निश्चयनयस्य चरणस्योपघाते शानदर्शनवधोऽपि ।
व्यवहारस्य तु चरणे हते भजना तु शेषाणाम् इति । २९ एवं चाभिनिवेशात् वरणविधाते नहानादया तत्प्रतिषिताः
सेवनामोहात् श्रद्धानभावः अनभिनिवेशात्पुनर्विषज्यं का भवन्ति, तद्विघातेऽपि तत्कायो पलम्भात्पश्चात्तापादिभावेन ॥