SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ટ मिति पामरः, तत्र, “सुत्तत्थो खलु पढमो" इत्याद्युक्तक्रमवतोऽर्थस्य काप्यंशेऽप्रामाण्याभ्युपगमे प्रत्यनीकतानपायादिति । तथा चार्य - प्रत्यनीकताया निबिडज्ञानावरणकर्मबन्धहेतुत्वात्तामुत्सृज्योपदर्शितसूत्रार्थे न शङ्का विधेया ॥ १४ ॥ नन्वेवं स्वाधीनविहारिणश्चारित्रनिषेधे भगवत्युक्तविरोधः इति शङ्कते - जो सीलवं असुअवं सो देसाराहगो कहं एवं । जन्नाणेऽणुट्ठाणं पुष्णं इहरा य णो देसो ॥ १५ ॥ यः शीलवानुद्यतानुष्ठानसम्पन्नः, तथाऽश्रुतवान् भावतोऽनविगतश्रुतज्ञानः, स देशाराधकश्चारित्ररूपदेशपालनपरः । कथमेवमपरतन्त्रस्य चारित्रनिषेधे युज्यते । यद् यस्मात् कारणाद् ज्ञाने सत्यनुष्ठानं पूर्ण रत्नत्रयसमुदायास्कन्दितमेव सम्भवति, अल्पश्रुतानामपि माषतुषादीनां गुरुपारतन्त्र्येण रत्नत्रयसाम्राज्योपपतेः, बहुश्रुतापेक्षयाऽल्पश्रुतानुष्ठानस्य देशत्वे चाकेवलिमः, देशाराधकत्वाविश्रामप्रसङ्गात् । न चात्र निश्चयनयसूक्ष्मेक्षिकास्ति येन सर्वसंवर एव तद्विश्रामोपपत्ताविष्टापत्तिः कर्त्तुं शक्या, तदानीं श्रुतशीलसनिपातायोगात् इतरथा च ज्ञानाभावे च नोदेशस्तदनुष्ठानं युज्यते, यत्रैव हि विशकलिते यत्समुदायघटकरूपं प्रतीयते, तत्रैव तद्देशत्वं नान्यत्र यथा विशकलितगुडादौ मदिराद्यवयवगतस्वादविशेषवत्तया प्रतीयमाने मदिरादिदेशत्वं, नान्यत्र यथा सिकतादौ न च प्रकृते रत्नसमुदायघटकचारित्ररूपं पारतन्त्र्यलक्षणमपरतन्त्रशीले सम्भवतीति कथं तत्र देशत्वम् । " इत्थं च तत्थ णं जे से पढमे पुरिसजाए से णं पुरिसे सीलवं असुअवं उवरए अविष्णातधम्मे एस णं गोयमा मए
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy