________________
१७४ अह कहवि तव्विसेसो इच्छिज्जइ णियमओ तदक्खेवा । इच्छिअसिद्धी सन्वेसि चित्तयाए अणेगंतो९८॥ अणिययसहावयावि हु ण तस्सहावत्तमन्तरेणावि । ता एवमणेगंतो सम्मति कयं पसगेण९९ ॥" ॥१८८॥
ननु यद्येवं तयाभव्यत्वेनैव कार्यसिद्धिस्तदा किं संयमयोगव्यापारणेत्यत आहतह वि खलु जयंतिजई धीरा मोक्खट्ठमुज्जुआ णिचं। अइयारच्चारणं समुदयवादं पमाणता ॥१८९॥
तथापि तथाभव्यत्वचित्रतासत्त्वेऽपि, खलु निश्चये, यतन्ते संयमयोगे यत्नमाद्रियन्ते, यतो धीरा मोहभटरणभङ्गक्षमधैर्यवन्तः मोक्षार्थमुद्यता अभ्युत्थिताः, नित्यं निरन्तरम्, अतिचारस्य चारित्रमालिन्यबीजस्य रागद्वेषलेशलक्षणस्य त्यागेन परिहारेण, समुदयवादं कालादिकलापस्य संमत्यादिसिद्धसामग्रीत्ववादम्, प्रमाणयन्तस्तथा चेष्टयोपपादयन्तः, तथाभव्यत्वं हि पुरुषकाराधपेक्षमेव फलोपधायकं तत्र चापुनर्बन्धकादिप्रयत्नापेक्षावश्यकीति भावः ॥ १८९ ॥ . अत एवान्तरगयत्न एव साधूनामपेक्षितो विचित्रभव्यत्वानुगुणत्वा न तु बहिरङ्ग एवेति द्रढयन्नाहजत्तो अ अंतरंगो अज्झप्पज्झाणजोगओ जुत्तो। जं एसो चिय सारो सयलंमि वि जोगसत्यंमि ॥१९॥
यत्नश्चान्तरङ्गोऽध्यात्मध्यानयोगत आत्मन्येवैकाग्रचित्त९८ अप कथमपि तविशेष इष्यते नियमतस्तदाक्षेपात् ।
इष्टसिद्धिः सर्वेषां चित्रतयानेकान्तः ॥ ९९ अनियतस्वभावतापि खलु न तत्स्वभावत्वमन्तरेणापि।
तस्मादेवमनेकान्तः सम्यगिति कृतं प्रसंगेन ॥
-