________________
दोसा जेण निरुज्झंति जेण छिज्जति पुव्वकम्माई। सो सो मोक्खोवाओ रोगावत्थासु समणं व ॥१४०॥
दोषा रागादयः, निरुद्ध्यन्ते सन्तोऽप्यप्रवृत्तिमन्तो जायन्ते, येनानुष्ठानविशेषेण, पूर्वकर्माणि प्राग्भवोपात्तज्ञानावरणादिकर्माणि च, येन क्षीयन्ते, स सोऽनुष्ठानविशेषो,मोक्षोपायो ज्ञातव्यः, रोगावस्थासु ज्वरादिरोगप्रकारेषु, शमनमिवोचितौषधप्रदानापथ्यपरिहाराधनुष्ठानमिव, यथा येन विधीयमानेन ज्वरादिरोगः क्षयमुपगच्छति, एवमुत्सर्गे उत्सर्गमपवादे चापवादं समाचरतो रागादयो निरुध्यन्ते पूर्वकर्माणि च क्षीयन्ते । अथवा यथा कस्यापि रोगिणोऽधिकृतपथ्यौपधादिकं प्रतिषिद्धयते कस्यापि पुनस्तदेवानुज्ञायते, एवमत्रापि यः समर्थस्तस्याकल्प्यं प्रतिषिद्धयतेऽसमर्थस्य तु तदेवानुज्ञायते यथोक्तं भिषग्वरशास्त्रे
"उत्पद्यते हि सावस्था देशकालाभयान् प्रति । यस्यामकार्य कार्य स्यात् कर्मकार्य च वर्जयेत् ॥” इति ॥१४०॥
तदेवमुत्सर्गापवादयोस्तुल्यसंख्यत्वं तदुपपादकमनियतविषयत्वतौल्यं च वृद्धवचनसम्मत्या समर्थितम् । इत्यं च यदुच्यते, "मन्दमतिभिरुत्सर्गापवादप्रचुरत्वे जिनवचनस्यान्यवचनतुल्यतापत्तिस्तत्रापि," "न हिंस्यात् सर्वभूतानि अग्नीषोमीयं पशुमालभेत" इत्यादिवचनानामुत्सर्गापवादभावेन विरोधपरिहारस्य सुवचत्वादिति तभिरसितुमाहण य एवं जिणवयणे तुल्लत्तं होइ अण्णवयणेणं । जं तं एगंतत्थं ण वि तं दिटुं सठाणत्यं ॥१४१॥
न च एवं जिनवचनेऽन्यवचनेन तुल्यत्वं भवति, यद् यस्माचदन्यवचनं एकान्तार्य न वितरेतरानुविद्धायकं, तथा च