________________
सर्वे भविष्यन्तीत्येवं नो वदेव, यदि वा ग्रन्थिभेदं कर्तुमसमां भविष्यन्तीत्येवं नो वदेत् , तथा शाश्वताः सदाकालं स्थायिनः शास्तार इत्येवं नो वदेव, यतः "एएहिं० ॥५॥ एतयोर्द्वयोः स्थानयोर्व्यवहारो न विद्यते । तथाहि-यत्तावदुक्तं सर्वे शास्तारः क्षयं यास्यन्तीत्येतदयुक्तमुक्तं, क्षयनिबन्धनकर्मणोऽभावेन सिद्धानां क्षयाभावाद्भवस्थकेवलिनामपि प्रवाहापेक्षया क्षयाऽयोगात् । यदप्युक्तं सर्वभव्यानां सिद्धिगमने उत्सन्नभव्यं जगत् स्यादिति, तदपि न, भव्यराशे राद्धान्ते भविष्यत्कालसमयवदानन्त्योक्तेस्तभिलौंपासंभवात् । न च सर्वेषां भव्यानां सेत्स्यमानताभिधानात्तदापत्तिः,
"भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम् ।
एण्यंश्च नाम स भवति, यः प्राप्स्यति वर्तमानत्वम्" ॥ - इति वचनात्, अनागतसमयानां लप्स्यमानवर्तमानतावत्तदुपपत्तेः, तथा नापि शाश्वता एव शास्तारः भवस्थानां सिद्धिगमनात् प्रवाहापेक्षया च शाश्वतत्वमतः कथञ्चित् शाश्वताः कथञ्चिदशाश्वता इति। तथा नानीदृशत्वमपि सर्वेषां घटते, जात्यादिना तथात्वेऽप्यसंख्येयप्रदेशत्वादिनाऽतथात्वात् , तथोल्लसितसवीर्यतया केचिद्भिनग्रन्थयोऽपरे च न तथेत्यत्राप्येकान्तो न कान्तः, शाश्वतत्वमपि नैकान्तेन कथञ्चिदुच्छेदादिति एतयोः स्थानयोरेवमनाचारं जानीयात् ।
"जे केइ खुदृग्गपाणा अहवा संति महालया। सरिसं तेहिं वेति असरिसं तिय णो वदे ॥६॥
ये केचन क्षुद्रा एकेन्द्रियादयोऽल्पकाया वा प्राणिनो अथवा महालया महाकायास्तेषां व्यापादने सदृशं वजं कर्म वैरं वा विरोधलक्षणं समानतुल्यप्रदेशत्वादित्येवं न वदेत् , तथा विस