________________
શાસ્ત્રપ્રસ્તાવના :
" व्याख्यातं समवायाख्यं चतुर्थमङ्गम् । अथावसरायातस्य-' विआहपण्णत्ति' तिसिज्झितस्य-पंचमांगस्य-समुन्नतजयकुञ्जरस्येव ललितपदपद्धतिप्रबुद्धजनमनोरंजकस्य, उपसगनिपाताऽव्ययस्वरूपस्य, घनोदारशब्दस्य, लिङ्गविभक्तियुक्तस्य, सदाख्यातस्य, सल्लक्षणस्य, देवताऽधिष्ठितस्य, नानाविधाद्भुतप्रवरचरितस्य, षट्त्रिंशत्प्रश्नसहस्रप्रमाणसूत्रदेहस्य, चतुरनुयोगचरणस्य, ज्ञान-चरणनयनयुगलस्य, द्रव्यास्तिक पर्यायास्तिकनयद्वितयदन्तमुशलस्य, निश्चय-व्यवहारनयसमुन्नतकुम्भद्वयस्य, योग-क्षेमकर्णयुगलस्य. प्रस्तावनावचनरचनाप्रकाण्डशुण्डाऽदण्डस्य, निग मनवचनाऽतुच्छपुच्छस्य, कालाद्यष्टप्रकारप्रवचनोपचारचारुपरिकरस्य, उत्सर्गाऽप वादवादसमुच्छलदतुच्छघण्टायुगलघोषस्य, यशःपटहपटुप्रतिरवाऽऽपूर्णादिकचक्र वालस्य, स्याद्वादविशदांकुशवशीकृतस्य, विविधहेतुहेतिसमूहसमन्वितस्य, मिथ्यात्वाऽज्ञानाऽविरमणलक्षणरिपुबलदलनाय श्रीमन्हावीरमहाराजेन नियुक्तस्य, बल. नियुक्तककल्पगणनायकमतिप्रकल्पितस्य, मुनियोधैरनाबाधमधिगमाय पूर्वमुनिशिल्पिकल्पितयोबहुप्रवरगुणत्वेऽपि ह्रस्वतया महतामेव वाञ्छितवस्तुसाधनसमर्थयोवृत्तिचूर्णिनाडिकयोः तदन्येषां च जीवाभिगमादिविविधविवरणदवकलेशानां संघट्टेन बृहत्तरा अत एवाऽमहतामप्युपकारिणी, हस्तिनायकादेशादिव गुरुजनवचनात् पूर्वमुनिशिल्पिकुलोत्पनरस्माभिर्नाडिकवेयं वृत्तिरारभ्यते।" इति शास्त्रप्रस्तावना ।