________________
व्याख्या - ‘एवं' पूर्वोक्तप्रकारेण तिर्यग्भवेषु जीवो दुःखशतसहस्रैः ‘क्लिश्यन्' क्लेशं
प्राप्नुवन् सन् अनन्तवारान् भीषणभवारण्ये 'उषितः' स्थितः ।।८३।। गाथा - दुट्ठकम्मपलया-निलपेरिउ भीसणंमि भवरण्णे ।
हिंडंतो नरएसु वि, अणंतसो जीव ! पत्तोऽसि ।।८४।। व्याख्या - हे जीव ! त्वं 'भीषणे' भयजनके भवारण्ये 'उषितः' स्थितः,
संसारकान्तारे 'दुष्टानि' दुष्टफलानि यान्यष्टसंख्यानि कर्माणि ज्ञानावरणीयादीनि, तान्येव 'प्रलयानिल:' प्रलयपवनस्तेन 'प्रेरितो' दोलितो 'हिण्डमानः' परिभ्रमन् सन्नरकेष्वपि 'अनन्तशो' अनन्तवारान्,
पक्रमाद्दुःखं प्राप्तोऽसि ।।८४ ।। गाथा - सत्तसु नरयमहीसुं, वजानलदाहसीअविअणासुं ।
वसिओ अणंतखुत्तो, विलवंतो करुणसद्देहिं ।।८५।।
व्याख्या - रे जीव ! त्वं 'सप्तसु' सप्तसंख्यासु नरकपृथ्वीषु रत्नप्रभादिषु 'वज्रानलस्य'
वज्राग्ने र्दाघस्य' उष्णस्य 'शीतस्य' च, हिमस्य, या 'वेदनाः' पीडास्तासु 'करुणशब्दैः' दयाजनकरुनै विलपन्' विलापं कुर्वन् सन् ‘अनन्तकृत्वो' अनन्तवारान् ‘उषितः' स्थितः, नरकेषूष्णवेदनायाः शीतवेदनायाश्च स्वरूपमेवमागमज्ञाः प्रज्ञापयन्ति, तथाहि-निदाघचरमसमये नभोमध्यमधिरूढे चण्डमहसि, मेघनिर्मुक्ते नभसि, कस्यापि पुंसो अत्यन्तपित्तप्रकोपाभिभूतस्य निषिद्धातपवारणस्य सर्वतो दीप्तवह्निज्वालाकरालस्य यादृगुष्णवेदना जायते ततोऽप्युष्णवेदनेषु नरकेषु नारकाणामनन्तगुणा, अपि च यदि नारका उष्णवेदनेभ्यो नरकेभ्य उत्पाट्य ज्वलत्खादिराङ्गारराशौ प्रक्षिप्य ध्मायन्ते तदा चन्दनलिप्ता इवाऽत्यन्तसुखान्निद्रामपि लभेरन् । तथा पौषे माघे वा रात्रौ निरभ्रे नभसि हृदयादिकम्पकृति वाति मारुति हिमाचलस्थलीकृतस्थितेनिरग्नेनिराश्रयस्य निरावरणस्य तुषारकणसिक्ताङ्गस्य पुंसो या शीतवेदना ततोऽपि शीतवेदनेषु नरकेषु नारकाणामनन्तगुणा, किञ्च यदि नारकाः शीतवेदनेभ्यो नरकेभ्य उत्पाट्य यथोक्तपुरुषस्थाने स्थाप्यन्ते तदा ते
प्राप्तात्यन्तनिर्वातस्थाना इव निरुपमसुखान्निद्रामप्यासादयेयुरिति ।।८५ ।। XREKKERARIKEKIKEKRREKKEKKEREKKEREKKEKEEKERS ४७ वैराग्यशतकम्