________________
गाथा - काऊणमणेगाई, जम्मणमरणपरियट्टणसयाइं ।
दुक्खेण माणुसत्तं, जइ लहइ जहिच्छियं जीवो ।।६७।। व्याख्या - हे जीव ! ‘अनेकानि' अनन्तानि, जन्ममरणानां परावर्तनशतानि
कदाचिजन्म कदाचिन्मरणमित्येवंरूपाणि कृत्वा 'दुःखेन' कष्टेन, अयं 'जीव' आत्मा, यदि यदृच्छिकं]च्छया (?) 'मानुषत्वं मनुजत्वं लभते, न तु सुखेन, कुशलपक्षकारी पुनः सुखेन मृत्वा सुखेनैव लभत इति
गाथार्थः ।।६७।। .. . गाथा - तं तह दुल्लहलंभं, विजुलया चंचलं च मणुअतं ।
___धम्मंमिजो विसीयइ, सो काउरिसोनसप्पुरिसो।।६८।। व्याख्या - तन्मनुजत्वं तथा चुल्लकादि दशोपनयव्यवस्थया 'दुर्लभलाभं' दुर्लभप्राप्तिं तथा
विद्युल्लतावञ्चञ्चलं च, लब्ध्वेति गम्यते, यो मनुजो 'धर्म' जिनप्रणीते, अदृष्टवशात् प्राप्ते विषीदति' विषण्णो भवति, धर्मं न सम्यगनुतिष्ठतीत्यर्थः, स
'कापुरुषः' कुत्सितपुरुषो, न सत्पुरुषः ।।६८ ।। गाथा - मणुस्सजम्मे तडिलद्धयंमि, जिणिंदधम्मो न कओय जेणं ।
तुटुंगुणेजह धाणुक्कएणं, हत्था मलेव्वा य अवस्सतेणं ।।६९।। व्याख्या - मनुष्यजन्मनि संसाराम्भोनिधितटप्राये लब्धे सति येन मनुष्येण, चः
पादपूरणार्थो, जिनेन्द्रधर्मोऽहिंसादिरूपो 'न कृतो' नानुचीर्णस्तेन मनुष्येण 'अवश्यं' निश्चितं, मरणावसाने हस्तौ 'मृदितव्यौ' घृष्टव्यौ, “हा ! हा ! मया सत्यां सामग्र्यां धर्मरूपं पाथेयं न जगृहे, अथाहं किं करोमीति", कस्मिन् केनेव ?, यथा 'गुणे' प्रत्यञ्चायां त्रुटिते सति रणभूमौ 'धानुष्केण' धनुर्धरेण, हस्तौ मृदितव्यौ भवतस्तथा तेनाऽपि, मृदातेर्मल इत्यादेशः ।।६९।।
गाथा - रेजीव ! निसुणिचंचलसहाव, मिल्हेविणुसयल वि बज्झभाव ।
नवभेय परिग्गह विविहजाल, संसारि अस्थि सहुइंदयाल ७०।। १. इंदियाल इत्यपि पाठः । .
३८
वैराग्यशतकम्