________________
'उपगतेन' प्राप्तेन सता पारवश्याद् ‘अनन्तकृत्वो'ऽनन्तवारान् ‘बहुविधं' अनेकप्रकारं 'भीषणं' भयानकं 'दुःखं' असातं 'समनुभूतं' वेदितम्
।।६२।। गाथा - तिरियगई अणुपत्तो, भीममहावेयणा अणेगविहा ।
जम्मणमरणऽरघट्टे, अणंतखुत्तो परिब्भमिओ ।।६३।। व्याख्या - हे जीव ! त्वं तिर्यग्गतिमनुप्राप्तोऽनेकविधा 'भीममहावेदना'
रौद्रमहापीडा, विषहमाणः, सन्निति गम्यते, जन्ममरणारघट्टेऽनन्तकृत्वः 'परिभ्रान्तः' पर्यटित, उक्तं च"तिरिया कसंकुसारा, निवायवहबंधमारणसयाइं ।
नवि इहयं पावंता, परत्थ जइ नियमिया हुंता ।।१।।" ।।६३।। गाथा - जावंति के वि दुक्खा, सारीरा माणसा व संसारे ।
पत्तो अणंतखुत्तो, जीवो संसारकंतारे ।।६४।। व्याख्या - हे आत्मन् ! संसारकान्तारे यावन्ति कान्यपि 'शारीराणि'
शरीरसम्बन्धीनि 'मानसानि' मनोभवानि वा दुःखानि, तानि सर्वाण्यप्ययं
जीवोऽनन्तकृत्वः प्राप्तः ।।६४।। गाथा - तण्हा अणंतखुत्तो,संसारे तारिसी तुमं आसी।
जं पसमेउं सव्वो-दहीणमुदयं न तीरिजा ।।५।। व्याख्या - रे जीव ! संसारे तव तादृशी 'तृष्णा' तृषाऽनन्तवारानासीत्, नरके
इति गम्यते, यां तृष्णां प्रशमितुं 'सर्वोदधीनां' सकलसमुद्राणां 'उदकं'
जलं न शक्नुयात्' न समर्थं भवेत् ।।६५।। गाथा - आसी अणंतखुत्तो, संसारे ते छुहा वि तारिसिया ।
जं पसमेउं सम्बो, पुग्गलकाओ वि न तरिजा ।।६६।। व्याख्या - रे जीव ! तव 'संसारे' नरकभवे, अनन्तकृत्वस्तादृशी 'क्षुधा' बुभुक्षा
आसीद्, यां क्षुधां ‘प्रशमितुं' निवर्तयितुं सर्वोऽपि पुद्गलकायो घृतादिरूपो न शक्नुयात् ।।६६।।।
३७
वैराग्यशतकम्