________________
सर्वलोकमाननीयं [तथा] नाऽपरस्येत्येवंवादी को बुद्धिमान् भवेत् ?, तथाहि - मयाऽन्यैश्च जन्तुभिः सर्वाण्यपि स्थानान्यनेकशः प्राप्तपूर्वाणीति, तथोच्चैर्गोत्रनिमित्तमानवादी वा को भवेत् ?, न कश्चित्संसारस्वभावपरिच्छेदीत्यर्थः, किञ्च “कंसि वा एगे गिज्झे" अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्वा एकस्मिन्नुच्चैर्गोत्रादिकेऽनवस्थिते स्थाने रागादिविरहादेकः कथं गृध्येत् ?, तात्पर्यं-आसेवां विदितकर्मपरिणामो विदध्याद्, युज्येत गार्ध्यं, यदि तत्स्थानं प्राप्तपूर्वं नाऽभविष्यत्, तच्चाऽनेकशः प्राप्तपूर्वम्, अतस्तल्लाभालाभयोर्नोत्कर्षापकर्षो विधेयाविति, आह च " तम्हा" इत्यादि, यतोऽनादौ संसारे पर्यटताऽसुमताऽदृष्टायत्तान्यसकृदुचावचानि स्थानान्यनुभूतानि, तस्मात्कथञ्चिदुच्चादिकं मदस्थानमवाप्य 'पण्डितो' हेयोपादेयतत्त्वज्ञो 'न हृष्येन हर्षं विदध्याद्, उक्तं च
'सर्वसुखान्यपि बहुशः, प्राप्तान्यटता मयाऽत्र संसारे । उच्चैःस्थानानि तथा, तेन न मे विस्मयस्तेषु ।। १ ।। जई' सो वि णिज्जरमओ, पडिसिद्धो अट्टमाणमहणेहिं । वसेसमयट्ठाणा, परिहरियव्वा पयत्तेणं ।।२।।”
नाऽप्यवगीतस्थानावाप्तौ वैमनस्यं विदध्याद् आह च- " णो कुज्झे" अदृष्टवशात्तथाभूतलोकासम्मतं जातिकुलरूपबललाभादिक मधममवाप्य 'न कुप्येन्न' क्रोधं कुर्यात्, कतरन्नीचस्थानं शब्दादिकं वा दुःखं मया नाऽनुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यमुक्तं च
‘अवमानात्परिभ्रंशाद्वधबन्धधनक्षयात् ।
प्राप्ता रोगाश्च शोकाश्च जात्यन्तरशतेष्वपि ।।१।।
संते य अविम्हईउं, असोइउं पंडिएण य असंते । सक्का हु दमोवमियं, हियएण हियं धरंतेणं ।।२।।
होऊण चक्वट्टी, पुहुइवती विमलपंडुरच्छत्तो । सो चेव नाम भुज्जो, अणाहसालालओ होइ ।।३।।” ।।६०।।
१. यदि सोऽपि निर्जरामदः, प्रतिषिद्धोऽष्टमानमथनैः । अवशेषमदस्थानानि, परिहर्तव्यानि प्रयत्नेन ।। १ ।।
२. सत्सु चाविस्मेतुमशोचितुं पण्डितेन चाऽसत्सु । शक्यं हि द्रुमोपमितं, हृदयेन हितं धरताम् ।।२।। भूत्वा चक्रवर्ती, पृथिवीपतिर्विमलपाण्डुरच्छत्रः । स एव नाम भूयोऽनाथशालायो भवति । । ३ । ।
३५ वैराग्यशतकम्