________________
व्याख्या
गाथा
-
व्याख्या -
हे आत्मन् ! एतद्रूपं शरीरसौन्दर्यं अशाश्वतं शश्वद्भवतीति शाश्वतं न शाश्वतमशाश्वतमनित्यं, रोगादिभिः कारणैरस्य विनाशात्सनत्कुमारचक्रवर्त्यादेरिव, तथा चोक्तं
www.
"
"थोवेण वि सप्पुरिसा, सणकुमारुव्व केइ बुज्झति ।
देहे खणपरिहाणी, जं किर देवेहिं से कहियं । । १ । । ” तथा जगति विद्युल्लतावत् 'चञ्चलं' चपलं, 'जीवितं' प्राणधारणं, यथा विद्युल्लता क्षणदृष्टनष्टा तथे जीवितमपि, 'च' पुनस्तारुण्यं' यौवनं सन्ध्यानुरागसदृशं क्षणं यावद् 'रमणीयं' सुन्दरं, यथा सन्ध्यायामभ्रपटलानि विधिधवर्णभाजि भवन्ति, पुनर्वायुप्रयोगाद्विनश्यन्ति, तथेदं तारुण्यमपि पञ्च दिनानि भवन्ति, ततो जरैव तद्विनाशिनी समुल्लसत्यतस्तारुण्ये को मदः ? ।। ३६ ।।
गयकण्णचंचलाओ, लच्छीओ तियसचावसारिच्छं । विसयसुहं जीवाणं, बुज्झसु रे जीव ! मा मुज्झ ।। ३७ ।।
हे जीव ! - आत्मन् !, यासां लक्ष्मीणां त्वं मदं धत्से 'एता मम यावज्जीवं पार्श्व न मोक्षन्त्ये'वं परं ता 'लक्ष्म्यः' श्रियो, गजकर्णवत् चञ्चला, न चिरस्थायिन्यो भवन्ति, सम्प्रत्यपि पूर्वं श्रीमन्तो दृष्ट्वा पश्चात्त एव निःश्रीका भूयांसो वीक्ष्यन्त इत्यतः श्रीणां स्थिरत्वं न, तथा जीवानां 'विषयसुखं' शब्दादिसुखं ‘त्रिदशचापसदृक्षं' इन्द्रधनुर्वचञ्चलं, अतो 'रे जीव !' आत्मन् ! एवं चञ्चलस्वभावं सर्वं ज्ञात्वा 'बुध्यस्व' धर्मे बोधं कुरु, 'मा मुह्यस्व' मा मोहं प्राप्नुहि, पुनरेतादृक्सामग्र्या योगस्य दुष्प्राप्यत्वात् ।। ३७।।
गाथा जह संझाए सउणा - ण संगमो जह पहे अ पहियाणं । सयणाणं संजोगा, तहेव खणभुंगुरा जीव ! ।। ३८ ।।
९. संजांगो तहेव खणभंगुरो इत्यपि पाठः ।
२३ वैराग्यशतकम्