________________
सोलस एए रोगा, अक्खाया अणुपुव्वसो । अह णं कुसंति आयंका, फासा य असमंजसा ।।३।।" तथा मरणानि च दुःखं, अनेकभवमरणापेक्षया बहुवचनं, यदुक्तं-“आउं संविलंतो, सिढिलतो बंधाणाई सव्वाइं । देहट्टिइं मुयंतो, झायइ कलुणं बहु जीवो ।।१।। इक्कं पि नत्थि जं सुठ्ठ, सुचरियं जह इमं बलं मज्झ । को नाम दढक्कारो, मरणंते, मंदपुनस्स ।।२।।" तथा “कथं दुष्कृतकर्माणः सुखं रात्रिषु शेरते ? । मरणान्तरिता येषां, नरके तीव्रवेदना ।।१।।" तथा"सव्वे जीवा वि इच्छंति, जीविउं न मरिजिउं । तम्हा पाणिवहं घोरं, निग्गंथा वजयंति णं ।।१।।" [दश० अ० ६ गाथा ११], एतदधिकृत्यैव भगवताऽप्याचाराङ्गे [सम्यक्त्वाख्येऽध्ययने प्रथमोद्देशके] उक्तं“से बेमि जे य अतीया जे य पडुप्पण्णा जे आगमिस्सा अरहंतो भगवंतो ते सव्वे एवमाइक्खंति एवं भासंति एवं पण्णवेंति एवं परूवेंति-सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा, न आणावेतव्वा, न परिघेतव्वा, न परितावेतव्वा, न उद्दवेतव्वा, एस धम्मे सुद्धे णितिए सासए समिञ्च लोयं खेदन्नेहिं पवेदिते” एतावता 'न हन्तव्या' इत्यादि कथनेन तेषां मरणं दुःखकरमिति ज्ञापितं, ततः किमित्याह-“दुक्खो हु" त्ति दुःखहेतुरेव संसारो जन्मादिनिबन्धनत्वात्तस्य, यत्र चातुर्गतिके संसारे प्राणिनः 'क्लिश्यन्ते' बाधामनुभवन्ति, “जन्मादि दुःखैरेवेति गम्यं, यद्वाऽनेके द्रव्योपार्जनाद्यर्थं क्लिश्यन्ते, यदुक्तं“अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिगर्थं दुःखसाधनम् ।।१।।" ।। ३३ ।।
२१
वैराग्यशतकम्