________________
गाथा : सिवमग्गसंठिआण वि, जह दुजेआ जियाण पुण विसया ।
तह अन्नं किं पि जए, दुजे नत्थि सयले वि ।।७९।। व्याख्या : यथा शिवमार्गे संस्थितानामपि जीवानां पुनर्विशेषे विशेषेण विषया
जेतुमशक्याः । तथा अन्यत्किमपि सकलेऽपि जगति दुर्जेयं नास्ति,
सुभटकोटिरपि सुजेया परं दुर्जेया विषया इति भावः ।७९ । गाथा : सविडंकुब्भडरूवा, दिट्ठा मोहेइ जा मणं इत्थी ।
आयहि चिंतंता, दूरयरेणं परिहरंति ।।८।। व्याख्या : सविटङ्कोद्भटरूपा इत्यत्र विटङ्को विबन्धः शुभाध्यवसायस्खलनं,
'टकिबन्धन * ' इति वचनात् सह विटङ्केन वर्तत इति सविटङ्कमुद्भटमुदारं सविटङ्कमुद्भटं रूपं यस्याः सा तथा दृष्टा विलोकिता मोहयति विचित्ततां नयति या काचिन्मनोऽन्तःकरणं स्त्री योषित् तामात्महितं स्वपथ्यं चिन्तयन्तो गणयन्तः साधवः दूरतरेण गाढं दूरेण परिहरन्ति वर्जयन्तीति । यतः - 'वातोद्भूतो दहति हुतभुग्देहमेकनराणां, मत्तो नागः कुपितभुजगश्चैकदेहं निहन्ति । ज्ञानं शीलं विनयविभवौदार्यविज्ञानदेहान्, सर्वानर्थान् दहति वनिताऽऽमुष्मिकांश्चैहिकश्च ।।१।। इति । ।
१. पणविषया मुद्रिते। *** पाणिनीये धातुपाठे चुरादौ १०५ तमोऽयं धातुः । xkkkkkkkkkkkkkkkkkkkkkkkkk १५५ इन्द्रियपराजयशतकम्