________________
गाथा : मयरहरो व जलेहि, तहवि हु दुप्पूरओ इमो' आया ।
विसयाऽऽमिसंमि गिद्धो, भवे भवे वच्चइ न तत्तिं ।।६२।। व्याख्या : यथा मकरधरो मकराकरः समुद्रो जलैरम्भोभिः दुष्पूरः पूरयितुमशक्यः ।
अपिरेवार्थस्तथैव हुर्निश्चये, अयमात्मा दूष्पूरः बहुभिरपि विषयसुखैः । यतो विषयामिषे विषयलक्षणभोग्यवस्तुनि गृद्धो मूर्छितो भवे भवे जन्मनि जन्मनि तृप्तिं न व्रजति नाप्नोति । आमिषं पले ।२-७७०।। सुन्दराकाररूपादौ सम्भोगे लोभलञ्चयोरित्यनेकार्थः । ‘वञ्चइत्ति व्रजनृतमदां चः' (सि० ८-४-२२५) इति एषा मन्त्यस्य द्विरुक्तः चो भवति वञ्चइ नञ्चइ मञ्चइ इति ।।६२।।
गाथा : विसयवसट्टा जीवा, उब्भडरूवाइएसु विविहेसु ।
भवसयसहस्सदुलहं, न मुणंति गयंपि नियजम्मं ।।६३।। व्याख्या : विषयस्य वशः पारतन्त्र्यं तेन ऋताः पीडिताः विषयवशार्ता जीवा विविधेषु
नानाप्रकारेषु उद्भटान्युदाराणि रूपादीनि तेषु गृद्धाः सन्तो गतमपि निजजन्म न जानते । किं भूतं निजजन्म ? भवशतसहस्रदुर्लभं जन्मलक्षदुःप्रापम् ।।६३ ।।
गाथा : चिटुंति विसयविवसा, मुत्तुं लजंपि के वि गयसंका ।
न गणंति केवि मरणं, विसयंकुससल्लिया जीवा ।।६४।। व्याख्या : केपि गतशङ्का निःसंशया लज्जां हियं मुक्त्वाऽपि विषयेषु विवशाः
पराधीनास्तिष्ठन्ति, तथा केऽपि जीवा विषयाङ्कुशेन शल्यिताः निखातशल्या अपेर्गम्यमानत्वान्मरणमपि न गणयन्ति विषयासक्तानां मरणमपि भवति । यतः
कम्प : स्वेदः श्रमो मूर्छा भ्रमिग्लानिर्बलक्षयः । १. रहवि D। २. इमे मुद्रिते । ३. विसट्टा मुद्रिते । ४. मुत्तूण मुद्रिते ।
१३१ इन्द्रियपराजयशतकम्