________________
च-पुनः, कामभोगास्तुच्छा असारा अल्पकालावस्थानात् दुःखलक्षाणां निबन्धनं कारणम् । यत; - प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः । नालिका तप्तकणक-प्रवेशज्ञाततस्तथा । ।।१।। मूलं चैतदधर्मस्य भवभावप्रवर्द्धनम् । तस्माद्विषान्नवत् त्याज्यमिदं पापमनिच्छतेति ।।२।। ।।५९।।
गाथा : नागो जहा पंकजलावसन्नो, दटुं थलं नाभिसमेइ तीरं ।
एवंजिआकामगुणेसुगिद्धा, सुधम्ममग्गेनरयाहवंति ।।६०।।
व्याख्या : नागो हस्ती, यथेत्युपन्यासे, पङ्कप्रधानं जलं पङ्कजलं, तत्रावसन्नो निमग्नः
पङ्कजलावसन्नः सन् दृष्ट्वा स्थलं न-नैवाऽभिसमेति प्राप्नोति तीरं पारमपेर्गम्यमानत्वात्तीरमप्यास्तां स्थलमिति भावः, एवं जीवाः कामगुणेषु गृद्धाः सुधर्ममार्गे शोभनसाधुधर्मावर्त्मनि न रता आसक्ता भवन्ति ।।६० ।।
गाथा : जह विट्ठपुंजखुत्तो, किमी सुहं मन्नए सयाकालं ।
तह विसयासुईरसों, जीवो वि मुणइ सुहं मूढो ।।६१।। व्याख्या : यथा विष्टापुओ पुरीषोञ्चये, क्खुत्तो त्ति निमग्नः 'चहुट्टए खुत्त' (२-७४) त्ति
देश्यां,२ कृमिः सदाकालं सुखं मन्यते । इदमवस्थानं सुखकारीति विचारयति । तथा विषय एव अशुचिः अपवित्रात्मकत्वात्तत्र रक्तो मूढो जीवोऽपि विषयं सुखं मन्यते ।।६१।।
१. सयाऽसुइरत्तो ख । २. देश्यो ख, दृश्यां ड ।
१३० इन्द्रियपराजयशतकम्